SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ ॐ श्री अर्हन्नमः॥ नत्वा तीर्थङ्करादीन् सुविजितकरणान् ज्ञानविज्ञानसिन्धून् कृत्वा मूर्धन्यनुज्ञां मुनिवरजयिनां दक्षिणाशाचराणाम् ॥ कुर्वे प्रस्तावमस्य त्रिभुवनविदितस्तोत्रसामुञ्चयस्य सर्वे क्षाम्यन्तु सन्तः सकरुणमयि भोः साहसं मामकीनम् ॥१॥ अयि भोः श्राद्धमहाशयाः! तत्रभवतां भवतां नितान्तशान्तान्तःकरणानां श्रुतिविषयमापतितमेव यथा खलु चतुःसमुद्रसंवेष्टिते षट्खण्डमण्डिते अस्मिन् भारते वर्षे कोटिशोऽन्देभ्यः प्राक् सकललोककामनाकल्पतरुरिव श्रीमद्भगवान् युगादिजिनमताधिपो महापुरुषलक्षणोपेतस्तीर्थङ्कर ऋषभदेवो नाम्ना तृतीयारकप्रान्ते प्रादुरासीद्धरण्याम् । अमन्दानन्दनिस्यन्दिनो भगवतो बालेन्दोरुदय इव श्रीमदृषभदेवमहाभागस्य, “अहिंसा परमो धर्मः" इत्यात्मकः सिद्धान्तः सर्वैः सादरं सशिरःकम्पममिनन्दितः। तदानीमखिलाः प्रजा अनवलोकितसद्धर्ममार्तण्डाः कालानुभावबलेनात्यन्तान्तर्हिततत्त्वज्ञाना अन्तरायतिमिरावृते प्राकृतजनदुर्वहकर्मोर्मिमालापरिपूरितेऽमुष्मिन् संसारपारावारे परं पार नाद्राक्षुः । जननीजठरजनिनिरोधकं शाश्वतसुखैकहेतुभूतं ज्ञानमिदमदो वेति सन्देहकूपान्तःपतिता मजनोन्मज्जनदुःखमन्वभूवन् । ये केचिदमानुषमनीषान्वितास्तेऽपि सन्मार्गदर्शकानां धर्मार्थकाममोक्षाख्यचतुर्विध. पुरुषार्थप्रतिपादकानां महतां धर्मप्रेरकाणामभावात् धर्मतत्त्वमजानाना एवासन् । एवं च निजपुत्रकलत्रमोहनिगडनिगडितेषु, विस्मृतपरोपकारदीक्षेषु, मानुषेषु, सद्विद्यावदातचेतास्तप्तचारुचामीकररसतरङ्गिण्यवगाहित इवापिशङ्गावदातवर्णेन मुखमण्डलेन विभ्राजमानो भगवान् जिनेन्द्रोऽग्निरिव खाण्डववनदिधक्षयास्मिन् क्षोणीतलेऽवततार । सर्वेन्द्रियालादनसमर्थमन्यथावबोधमहीरुहकुठारं तदुपदेशसुधारसमाकण्ठं पीला तदनुसारिणो गणधराद्याचार्यवर्या भारतषट्खण्डमण्डलानि धर्ममण्डितान्यकुर्वन् । गणधरा गणधरविष्याः प्रशिष्याश्च पृथक् पृथग्विषयेषु विहृत्य तेषु तेषु जनपदेषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy