________________
१२
भविककमलवनदिनकरकरणे
प्रसृमरशमरसविनिभृतहृदयः । हिमकरसममुख विदलितमदनो भवदवनवधन! जय जय जिनप! ॥ २४ ॥
(मणिगुणैनिकरः) प्रथमजिनेश्वरः प्रथममेदिनीपतिस्त्वं,
प्रथममहाव्रती प्रथमलब्धकेवलश्रीः । ऋषभ ! मुदा नतत्रिदशनाथसेव्यमानो जय विजितेन्द्रियोत्कटहयेन्दुमण्डलास्यः ॥ २५ ।।
(वोणिनी) जिनेन्द्र ! तव शासनं भविककोकमालारवि __ भवाब्धितरणे तरिं भजति यो जनः सादरम् । मनोरमरमाततिः श्रयति तं समुत्कंण्ठिता ___ द्रुतं जलनिधिं यथा सकलमेदिनीसिन्धवः ॥ २६ ॥
(पृथ्वी) शमरससुधामग्ने नेत्रे सुधाकरसन्निभं
वदनममलं शस्त्रै-नौ करौ वरविग्रहम् । अपरमपि ते सौम्याकारं विलोक्य जनावली त्यजति सकलं मिथ्यात्वं श्रीजिनेन्द्र कुदेवजम् ॥ २७ ॥
(हरिणी) १ वसुमुनियतिरिह मणिगणनिकरः (४ नगण-१ सगण)
- 1- 1- 1- वर्ण १५ । २ नजभजतैः सदा भवति वाणिनी गान्वितैः
--- - ---- -- वर्ण १५ । ३ जसौ जसयलावसुग्रहयतिश्च पृथ्वी गुरुः ।
------ --- - वर्ण १६ । ४ नसमरसला गः षड् वेदैर्यतौ हरिणी मता
------ ---- -- - वर्ण १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org