SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २२१ अथ श्रीऋषभजिनस्तुतिः। युगादिपुरुषेन्द्राय युगादिस्थितिहेतवे। युगादिशुद्धधर्माय युगादिमुनये नमः ॥ १ ॥ ऋषभाद्वर्धमानान्ता जिनेन्द्रा दशपञ्च च । त्रिकवर्गसमायुक्ता दिशन्तु परमां गतिम् ॥ २ ॥ जयति जिनोक्तो धर्मः षड्जीवनिकायवत्सलो नित्यम् । चूडामणिरिव लोके विभाति यः सर्वधर्माणाम् ॥ ३ ॥ सा नो भवतु सुप्रीता निधीतकनकप्रभा । मृगेन्द्रवाहना नित्यं कूष्माण्डी कमलेक्षणा ॥४॥ इति श्रीऋषभजिनस्तुतिः । अथ श्रीनेमिजिनस्तुतिः (पञ्चमीस्तुतिः)। समुद्रभूपालकुलप्रदीपः संसारवाधौं विपुलान्तरीपः। श्रीपञ्चमीपुण्यतपोनिलीनं शिवाङ्गजोऽव्याजनमात्मनीनम् ॥१॥ वितेनिरे मेरुगिरौ वितन्द्रा येषां मुदा जन्ममहं महेन्द्राः । रक्षन्तु ते पञ्चमिकातपस्यां विघ्नं कृतस्तीर्थकृतो भवस्थाः ॥२॥ चकार यं पञ्चमगच्छनेता यः पापभारस्य सदापनेता । स आगमः पञ्चमिकातपस्यां विघ्नौ कृतस्तीर्थकृतो भवस्थ्याम् ॥३॥ प्रयाति या नेमिजिनं विनन्तुं सिंहाधिरूढाऽस्य तमो निहन्तुम् । श्रीपञ्चमीपुण्यतपोनिलीनं शिवाङ्गजोऽव्याजनमात्मनीनम् ॥४॥ इति श्रीनेमिजिनस्तुतिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy