________________
श्रीसोपारकस्तवनम् । श्रीसोपारकपत्तनावनी वामाक्षीकरकङ्कणप्रभम् । हृद्भक्त्या नतनाकिनायकं श्रीनाभेयजिनं स्तवीम्यहम् ॥ १ ॥
(शुद्ध विराद ) गङ्गानदीप्रौढतटस्थितं यः सङ्ख्याति दक्षः सिकतासमूहम् । सङ्ख्यातिगान् सोऽपि गुणांस्त्वदीयान् वक्तुं न शक्नोति मनागपीह २
___( इन्द्रवज्रा) तथाप्यहं जाड्यतमोभरेण स्वामिन् ! निरुद्धान्तरलोचनश्रीः । त्वत्स्तोत्रनिर्माणपथे प्रवृत्तिं कुर्वेऽन्धयष्ट्याभविशिष्टभक्त्या ॥ ३ ॥
(उपजातिः) विमलाचलमेखलावनीस्थितसोपारकपत्तने पुरा।। त्वयि जीवति भूरिराजभिः प्रतिमैषा तव पूजिता प्रभो ! ॥४॥
(प्रबोधिता) आद्यतीर्थकर! भाग्यमद्य मे मेदुरं किल बभूव सत्त्वरम् । येन लोचनचकोरचन्द्रमा वीक्षितोऽसि भुवनाधिपो मया ॥ ५ ॥
(रथोद्धता) १ म्सौ ज्गौ शुद्धविराडिदं मतम्
------- वर्ण १०। २ स्यादिन्द्रवज्रा यदि तौ जगौ गः 6 -
वर्ण ११ । ३ अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः । ४ विषमे ससजा गुरुः समे सभरा ल्गौ तु तदा प्रबोधिता। ------------------ -
(विषमच्छन्दः)१०।११। ५ रान्नरौ लघुगुरू रथोद्धता
----------- वर्ण ११ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org