________________
सर्वत्र सर्वज्ञपुरः सरस्वतीस्तवाङ्गभाग्मध्यपदे सरस्वतीम् । भजेत नक्तं दिनके सरस्वतीतयन्मुखात् श्रीधृतिभासरस्वती॥१०॥ तनूमतां योऽघविधूसरस्वती तनत्तनूरत्नचकासरस्वती । न तत्र कर्त्तर्यपि मत्सरस्वतीर्थिकेरमीशस्य न भा सरस्वतीः॥११॥ तनोति यः कश्चिदपासरस्वतीपूर्वस्थवर्णाननुतः सरस्वतीन् । त्वच्छासने सस्ववियुक्सरस्वतीर्वधू भुनक्त्येष सुहा सरस्वती ॥१२॥ यशस्ततिस्ते जगतीं सरस्वती पुनाति नेतः सुखवा सरस्वती । विधुं धरां चाभिसु वा सरस्वती कत्तुं च याकृत्प्रतिमा सरस्वतीः १३ त्वं तीर्थप व्यत्ययतः सरस्वती वयुस्मृता ज्ञैरनिरा सरस्वती । ततोऽपि च त्वं वरदा सरस्वती वलाकभूमौ समवासरस्वतीः॥१४॥ योऽनङ्गसौख्येन परा सरस्वतीनृपत्ययुग् रस्पदमुक्सरस्वतीम् । बध्नाति किं तर्हि परा सरस्वती हियाऽन्यचित्ते विरमत्सरस्वतीः १५ कर्मापराह्वाधरका सरस्वती रणक्रियापूर्वतवा सरस्वती। तया विना त्वां भुवि चेत्सरस्वती लिकादियोनौ बहुशो सरस्वतीः१६ स एव शस्यः परिवत्सरस्वती तपस्तपोऽन्यैर्यममत्सरस्वती। भव्याघहारेऽथ वधूसरस्वती नकादिपूज्य श्रितकेसरस्वतीः ॥१७॥ क्रष्टुं नरैः किं हरिकेसरस्वतीप्सते यथांसे हयके सरस्वती । हन्तुं परेषामिव ते सरस्वती शाच्यस्य भान्यैर्न तथा सरस्वती॥१८ सरस्वतीव्रतशब्दपूर्वसरस्वतीमूलविधं विमुच्य । सरस्वतीक्ष्णं क्रमयामलं ते सरस्वती तं कलयन् श्रिया भूः ॥ १९॥ सरस्वतीदानवती द्विषत्कसरस्वतीवं त्वदृते सृजेद्यः । सरस्वती सङ्गमनं जिनाने सरस्वतीहेष न केवलास्या ॥ २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org