________________
प्रबन्धः ]
प्रबन्धकोशेलपराह्वये
तत्र पुरे धर्मो नाम राजा। स च गुणज्ञः । तस्य सभायां वापतिनामा कविराजोऽस्ति । तेन सूरीणामागमनं लोकारवगतम् । ज्ञापितश्च राज्ञा । राज्ञा प्रवेशमहः कारितः । पूर्मध्ये सौधोपान्ते गुरुस्तुङ्गगृहे स्थापितः । राजा नित्यं वन्दते । कवयो जिता राजताश्च । प्रभावना प्रैधते स्म । यशश्च कुन्दशुभ्रम् । 'राजा प्रोचे- ५
अदृष्टे दर्शनोत्कण्ठा, दृष्टे विरहभीरता। ___दृष्टेनाप्यदृष्टेन, भवता नाप्यते सुखम् ॥ १॥ निर्बन्धे सूरिराह-आमश्चेत् स्वयमायास्यति तदा वयं यास्यामः, नान्यथा । इति प्रतिज्ञाय स्थापिताः पुण्यलाभं कुर्वन्ति ।
इतश्च यदा बप्पभट्टिः कृतविहारः प्रातः श्रीआमपार्थ नामा- १० तस्तदा तेन सर्वत्रावलोकितो न लब्धः । पासो विपक्षः । 'यामः स्वस्ति तवास्तु' इत्यादि काव्यानि दृष्टानि । अक्षराण्युपलक्षितानि । ध्रुपं स मां मुक्त्वा क्वापि गत एवेति निर्णीतम् । __ अन्यदा बहिर्गतेच राज्ञा महाभुजङ्गमो दृष्टः । तं मुखे धृत्वा वाससाऽऽच्छाद्य सौधं गतः । कविवृन्दाय समस्यामर्पितवान्- १५
शस्त्रं शास्त्रं कृषिविद्या, अन्यो यो येन जीवति । इति। पूरिता सर्वैरपि । न तु नृपश्चमच्चकार हृदयाभिप्रायाकथनात् । तदा वप्पभट्टि बाढं स्मृतवान् । सा हृदयसंवादिनी गौस्तत्रैव । अथ स पटहमवीवदत् । तत्रेदमजूघुषत्-यो मम हृद्गतां समस्यां पूरयति तस्मै 'हैमटककलक्षं ददामि । तदा 'गोपगिरी यो धूतकारः २० कश्चिद् 'गौड'देशं गतः । स बप्पभट्टिसूरीणामग्रे तत् समस्यापदद्वयं कथितवान् । सूरिणा पश्चार्द्ध पेठे__ सुगृहीतं च कर्तव्यं, कृष्णसर्पमुखं यथा ॥१॥ इति । स हि भगवान् षड्विकृतित्यागी सिद्धसारस्वप्तो गगनगमनशक्त्या विविधतीवन्दनशक्तियुक्तस्तस्य कियदेतत् । स यूत- २५
१ग-पुस्तके 'राजा. कुर्वन्ति' एतदधिकम् । २ अनुष्टुपू। ३ ख--'काव्यं दृष्टम्'। ग-'हेम०' । ५ अनुष्टुप् । ६ दुग्ध-घृत-दधि-तैल-गुड-पक्कानेति षड् विकृतयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org