SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराह्वये अस्य चिरादागतस्य निरी द्वारं नोद्घाटयिष्यावः । द्वितीयरात्रावति'चिराद् द्वारमागतः स कटकं खटपटापयति । ते तु न ब्रूतः । तेन क्रुद्धेन गदितम् किमिति द्वारं नोद्घाटयेथे ! । ताभ्यां मन्त्रित पूर्विणीभ्यामुक्तम् - यत्रेदानीं द्वाराणि उद्घाटितानि भवन्ति तत्र व्रज । तच्छ्रया क्रुद्धश्चतुष्पथं गतः । तत्रोद्घाटे हट्टे उपविष्टान् ५ सूरिमन्त्रस्मरणपरान् श्रीहरिभद्रान् दृष्टवान् । सान्द्रचन्द्रिके नभसि देशना । बोधः । व्रतं जगृहे । सर्वविद्यता दिव्यं कवित्वम् । हंस- परमहंसवद् विशेषतर्कान् जिघृक्षुबैद्धान्तिकं जिगमिषुगुरुमवादीत् - प्रेषयत बौद्धपार्श्वे । गुरुभिर्गदितम् - - तत्र मा गाः, मनःपरावर्ती भावी । स ऊचे -- युगान्तेऽपि नैवं स्यात् । १० पुनर्गुरवः प्रोचुः -- तत्र गतः परावर्त्यसे चेत् तदा अस्मदत्तं वेषमत्रागत्यास्मभ्यं ददीथाः । ऊरीचक्रे सः । गतस्तत्र, पठितुं लग्नः । सुघटितैस्तत्कुतर्कैः परावर्तितं मनः । तद्दीक्षां ललौ । वेषं दातुमुपश्री हरिभद्रं ययौ । तैरप्यार्गच्छन्नावर्जितो वादं कुर्वन् वादेन जितः । बौद्धाचार्यस्य बौद्धवेषं दातुं गतः । तेनापि बोधितः । १५ पुनरागत उपश्री हरिभद्रं श्वेताम्बरवेषं दातुम् | पुनर्वादेन जितः । एवं वेषद्वयप्रदानेन एहिरेयाहिरा: २१ कृताः । द्वाविंशवेलायां गुरुभिश्चिन्तितम् -- माऽस्य वराकस्य आयुः क्षयेण मिध्यादृष्टित्वे मृतस्य दीर्घभवभ्रमणं भूयात् । पुराऽपि २१ वरान् वादे जितो saौ । अधुना वादेनालम् । ललितविस्तराख्या चैत्यवन्दना २० वृत्तिः सतर्का कृता । तदागमे पुस्तिकां पादपीठे मुक्त्वा गुरवो बहिरगुः । तत्पुस्तिकापरामर्शाद् बोधः समजनि । ततस्तुष्टो निश्चलमनाः प्राह १ क- ' चिरेण ' तर्कानाजि० ' 12 । २ ख - ' खटापथति, क - घटपटापयति । * क ख - गच्छन ( ? ) जटितः ' । ३ क ५ - पुस्तके " वादं इत्यारभ्य पुनर्वादेन जित: ' एतत्पर्यन्तमधिकं विद्यते । ६ घ ' वारं वादैर्जितो ' । ७ क - 'बोध्या सम्यक्' । 4 Jain Education International । ५३ For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy