________________
चतुर्विंशतिप्रबन्धे [८ श्रीहरिभद्रसूरिजह जलइ जलउ लोए, कुसत्यपवणाहओ कसायग्गी ।
तं चुजं जं जिणवयणअमियसित्तो वि पज्जलइ.॥ ४ ॥" बोधः । शान्तिः । १४४० ग्रन्थाः प्रायश्चित्तपदे कृताः । 'चित्रकूट'तलहट्टिकास्थेन तैलवणिजा प्रतयः कारिताः । प्रथम याकिनीधर्मसूनुसित हारिभद्रग्रन्थेष्वतोऽभूत् । १४४० पुनर्भव. विरहान्तता । — गुणसेण-अग्गिसम्मा'इत्यादिगाथात्रयप्रतिबद्धं समरादित्यचरित्रं नव्यं शास्त्रं क्षमावल्लीबीजं कृतम् । ११०० शतक-पञ्चाशत्-षोडशक-अष्टक--पञ्चलिङ्गी-अनेकान्तजय--
पताका-न्यायावतारवृत्ति पञ्चवस्तुक-पञ्चसूत्रक-श्रावकप्रज्ञ-प्ति १० -नाणायत्तकप्रभृतीनि हारिभद्राणि ।
अन्नान्तरे 'श्रीमाल'पुरे कोऽपि धनी श्रेष्ठी जैनश्चतुर्मासके सपरिकरो देवतायतनं व्रजन् सिद्धाख्यं राजपुत्रं द्यूतकारं युवानं देयकनकपदे निर्दयै नकारैगर्तयां निक्षिप्तं कृपया तद्देयं दत्त्वाऽमोचयत् । गृह
मानीयाभोजयत् । अपाठयत् । सर्वकार्याध्यक्षमकरोत् । पर्यणाययत् । १५ माता,पागप्यासीत् । पृथग् गृहेऽस्थात् । मात्रा प्रियया च समं स
गृहमण्डनिका । श्रेष्टिप्रसादाद् धनं बभूव । सिद्धो रात्रौ अतिकाले एति, लेख्यकलेखलेखनपरवशत्वात् । श्वश्रू-स्नुषे अतिनिर्विण्णे, अतिजागरणात् । वध्वा श्वश्रूरुक्ता- मातः ! पुत्रं तथा बोधय यथा निशि सकाले एति । मात्रा उक्तः सः-- वत्स! निशि शीघ्रमेहि, यः कालज्ञः स सर्वज्ञः । सिद्धः प्राह-मातः ! येन स्वामिनाऽहं सर्वस्वदानेन जीवितव्यदानेन च समुद्धृतस्तंदादेशं कथं न कुर्वे ? । तोष्णीक्येन स्थिता माता । अन्यदाऽऽलोचितं श्वश्रू-स्नुषाभ्याम्--
१ छाया- यथा ज्वलति ज्वलनं लोके कुशास्त्रपवनाहतः कषायामिः ।
_तच्चोद्यं यज्जिनवचनामृतसिक्तोऽपि प्रज्वलति ॥ २ ग-'वन्तेऽभूत् । ३ एतत्प्राप्तिर धुना दुर्लभा । ४ न ज्ञायते एतदुपलब्धिः । ५ क-'श्चतुर्मासे'। ६ ग-पुस्तके 'गृहे' अस्यानन्तरं 'अस्थात् । मात्रा प्रियया च समं सः' एतदधिकं वर्तते । ७ ग-पुस्तके 'बभूव' एतदधिकमस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org