SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः] प्रबन्धकोशेत्यपराये पत्तमवलंबियं तह, जो जंपइ फुल्लए न मुसलमिह । तमहं निराकरित्ता, फुल्लइ मुसलं ति ठोवेमि ॥१॥ तथा'मद्गोशृङ्गं शक्रयष्टिप्रमाणं शीतो वह्निारुतो निष्प्रकम्पः । यस्मै यद् वा रोचते तन्न किञ्चिद् वृद्धो वादी भाषते कः किमाह ॥१॥ अप्रतिमल्लो वादी सोऽभूत् । स्कन्दिलाचार्यैः स्वपदे निवेशितः । वृद्धवादी इति ख्यातं तन्नाम। स्कन्दिलाचार्याः समाधिमृत्युरथेन घामगमन् । एकदा वृद्धवादी 'भृगु'पुरं गच्छन्नास्ते । इतश्चा'ऽवन्त्यां' विक्रमादित्यो राजा । यस्य दानानि अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुला ___ पञ्चाशन्मदगन्धलुब्धमधुपक्रोधोद्धराः सिन्धुराः । लावण्योपचयप्रपश्चितदृशां पण्याङ्गनानां शतं दण्डे 'पाण्ड्य नृपेण ढौकितमिदं वैतालिकस्यार्प्यताम् ॥१॥ इत्यादीनि ख्यातानि । तस्य राज्ये मान्यः 'कात्यायन'गोत्रावतंसो देवर्षिर्द्विजः । तत्पत्नी देवसिका। तयोः सिद्धसेनो नाम पुत्रः । स प्रज्ञाबलेन जगदपि तृणवद् गणयति । प्रज्ञायाश्च इयत्ता नास्ति। जगति ततः पठ्यतेमिता भूः पत्याऽपां स च पतिरपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥ १ ॥ येन वादे जीये तस्याहं शिष्यः स्याम् इति प्रतिज्ञा तस्य । २५ १ छाया- पत्रमवलम्बितं तथा यो जल्पति पुष्पेत् न मुशलमिह । तमहं निराकृत्य पुष्पति मुशलमिति स्थापयामि ॥ २ ग..'वाचेमि'। आर्या । राख-घ--'मद्गोः शृङ्ग'। ५ शालिनी ६ क-ख--'स्यापितम्' । ७ शार्दूल० । ८ सूर्यः । ६ शिखरिणी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy