SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३० ५ चतुर्विंशतिप्रबन्धे [ ६ श्रीवृद्धवादि- सिद्धसेन [ ६ ] ॥ अथ श्रीवृद्धवादि - सिद्धसेनयोः प्रबन्धः ॥ 'विद्याधरेन्द्र'गच्छे श्रीपादलिप्तसूरिसन्तामे स्कन्दिलाचार्याः साधित जैन कार्याः पुस्फुरुः । 'ते यतनया विहरन्तो 'गौड' देशं ययुः । तत्र ' कोशला'ख्यग्रामवासी मुकुन्दो नाम विप्रः । स तेषां सूरीणां मिलितः । इत्थं देशनामश्रौषीत्--- भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भयं दास्ये स्वामिभयं गुणे खलभयं वंशे कुयोषिद्भयं । स्नेहे वैरभयं नयेऽनयभयं काये कृतान्ताद् भयं १० सर्व नाम भयं भवे यदि परं वैराग्यमेवाभयम् ॥ १ ॥ श्रुत्वा भवोद्विग्नवारित्रं गृहीत्वा गुरुभिः समं 'भृगु' पुरं गतः । स मुकुन्द मुनिस्तारस्वरेणाधीते रात्रौ । साधूनां निद्राभङ्गो भवति । ततस्तान् दुर्मनायमानान् ज्ञात्वा गुरुभिः पठन्निषिद्धोऽसौ । यथावत्स ! नमस्कारान् गुणय । रात्रावुच्चैर्भाषणे हिंस्रजविजागरणादनर्थ१५ दण्डो मा भूदिति । ततो दिवा पठने श्रावक श्राविकादीनां कर्णज्वरो भवति । केनाप्युक्तम्- किमयमियद्वयाः पठित्वा मुशलं पुष्पापयिष्यति ? । तच्छ्रुत्वा मुकुन्दः खिन्नः सद्यो महाविद्यार्थी एकविंशत्योपवासैर्जिनालये ब्राह्मीमारराध । तुष्टाऽसौ प्रत्यक्षीभूय जगाद - सर्वविद्यासिद्धो भव । ततः कवीन्द्रीभूय स्वगुर्वन्तिकमागत्य सङ्घ२० समक्षमक्षामस्वरेण वभाण - यन्ममोपहासः केनापि कृतो यदयं किं मुशलं पुष्पापयिष्यति, विलोकयत लोकाः ! मुशलं पुष्पापयामि । इत्युक्त्वा मुशलमानाय्य चतुष्पथे स्थित्वा तत् पुष्पापयामास, मन्त्रशक्तिमाहात्म्यात् । स्कन्धस्थितेन तेन भ्रमति पठति च क-ख़- 'तेन यत०' । २शार्दूल० । ३ क - कवीन्द्रो भूत्वा' | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy