________________
२९४
चतुर्विशतिप्रवन्धे १२, ९ धरणेन्द्रः = नागकुमाराणामिन्द्रः। प्रेक्ष्यतां तत्वार्थ( अ. ४,
सू. ७ )भाष्यं (पृ. २७७ ) स्थानाङ्गसूत्रं वा । १३,१० चक्रेश्वरी विद्या । अस्या विस्तृत स्वरूपं नाद्यावधि मे दृष्टि
पथमागतम् । १३,१० । परकायप्रवेशविद्यास्वरूपं दरीदृश्यते योगशास्त्रे ( प्र. ५, १२६,४ श्लो. २६४-२७२ ) तद्विवरणे च । परकायप्रवेशविधि१६१,१६) र्वेधाविधिरित्युच्यते ।। १४,५ “आधाय विकल्प्य यतिं मनसि कृत्वा सचित्तस्याचित्तीकरणम
चित्तस्य वा पाको निरुक्तादाधाकर्म" इति योगशास्त्र(प्र.१,
श्लो. ३८ )विवरणे। १४,१४-१५ त्रैलोक्यजयिनी विद्या किंस्वरूपेति न स्पष्ट ज्ञायते । १४,१५ द्वात्रिंशत् लक्षणानि कानीति जिज्ञासुभिदृश्यतां चतुर्विंशति- काया मदीयं स्पष्टीकरण (पृ. ५८-५९)। १४, १९ । “ पाठमात्रप्रसिद्धः पुरुषाधिष्टानो वा मन्त्रः" इति योग५३, ६ शास्त्र(प्र. १, श्लो. ३८ )विवरणे । जैनमन्त्रेष्वतिप्राचीनः
सूरिमन्त्रः । एतस्य जापो निर्जराफलकः। एतदधिकारिण
आचार्याः सन्ति । एतस्य कल्पोऽपि वर्तते । १८, ३ नानालब्धिस्वरूपं वर्णितं श्रीजिनभद्रगणिक्षमाश्रमणसन्दृब्ध
विशेषावश्यक( गा. ७९९-८०१ )टीकायां मलधारि
श्रीहेमचन्द्रसूरिभिः। १९,१३ अनशनं = तपोविशेषः । जिज्ञासुभिः प्रेक्ष्यतां तत्त्वार्थ(अ.९,
सू. १९ )टीका (पृ. २३६-२३७) २४, ८ " मन्त्रजपहोमादिसाध्या स्त्रीदेवताधिष्ठाना वा विधा" इति
योगशास्त्र(प्र. १, श्लो. ३८ )विवरणे । पादलेपविधा कथं सिध्यत इति न स्पष्टं ज्ञायते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org