________________
झ-परिशिष्टम्
२. ५ कायिक- वाचिक-मानसिकक्रियानिग्रहो गुप्तिः । एतत्स्वरूपार्थिना प्रेक्ष्यतां तत्त्वार्थ (अ. ९ सू. ४) टीका ( पृ. १८३-१८६)। २, ६ चक्री = चक्रवर्ती ।
२, ६ चरमतीर्थङ्करस्य विविधानि नामानि । तानि चैवम् - वर्धमानः, वीरः, महावीरः, ज्ञातनन्दनः, देवार्यः, सन्मतिः ।
३, १ चतुर्दशपूर्वी । श्रुतज्ञानं द्विविधम् - अङ्गबाह्यमङ्गप्रविष्टं च । प्रथममनेकविधम्, द्वितीयं तु द्वादशभेदम्, तद् यथा - आचारः, सूत्रकृतः, स्थानम्, समवायः, व्याख्याप्रज्ञप्तिः, ज्ञातधर्मकथाः, उपासकाध्ययनंदशाः, अन्तकृद्दशाः, अनुत्तरोपपातिकदशाः, प्रश्नव्याकरणम्, विपाकसूत्रम्, दृष्टिपातो दृष्टिवादो वा । अन्तिमस्य परिकर्मसूत्र- पूर्वानुयोग-पूर्वगत- चूलिकेति पश्च प्रकाराः । तत्र पूर्वगतस्य चतुर्दश प्रकारा ये पूर्वेति प्रसिद्धाः । एतेषां संस्कृतप्रायाणां समस्तानां ज्ञाता चतुर्दशपूर्वी चतुर्दशपूर्वधरः कथ्यते । पूर्वस्वरूपजिज्ञासुभिः दृश्यतां नन्दीसूत्रं (सू. ५७ ) प्रवचनसारोद्धारो (गा. ७११-७१८) वा । ३, १३ पश्चेन्द्रियसंवरः, नवविधं ब्रह्मचर्यम्, चतुर्विधकषायमुक्तता, महाव्रतपञ्चकम्, पञ्चविधाचारपालनसमर्थता, पञ्च समितयः, तिस्रो गुप्तय इति षट्त्रिंशद् गुणाः सूरेः - आचार्यस्य । ३, १६ निर्युक्तिः = जिनप्रवचनस्य पद्यात्मिका प्राकृतभाषानिबढा
I
व्याख्या ।
९, १३ सप्त वर्षाणि वर्ष वा, पूर्णिमायां यथाबलम् ।
""
तपः प्रकुर्वतां 'पुण्ड - रीकाख्यं तप उच्यते ॥ "
९, १५
९९,१८ २००, ३
इति तपोरत्नमहोदधौ ६६ तमे पत्रे ।
- साधर्मिक वात्सल्यम् = समानधर्मिणः प्रति प्रीतिः । एतत्स्वरूपं समस्ति उपदेशतरङ्गिण्यां (पृ. १६० - १६१) ।
११, ९ अवधिना = तृतीयेन प्रकारेण ज्ञानेन ।
तर्विशति सचि
२९३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org