SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [१४ श्रीवस्तुपालमन्त्री हस्तेन वन्दित्वा विरक्तो गतः स्वोत्तारकम् । एवं दिनाः पद्यार्धपाठश्च । मन्त्र्यवज्ञा चारोहत् प्रकर्षे । अष्टम्या रात्रौ मन्त्री मुस्कलापनिकां कर्तुं देवरङ्गमण्डपे निविष्टः । पुरो धनबदरकाणां राशयः । कोऽपि कविराह श्रीवस्तुपाल ! तव भालतले जिनाज्ञा ___ वाणी मुखे हृदि कृपा करपल्लवे श्रीः । देहे द्युतिविलसतीति रुषेब कीर्तिः पैतामहं सपदि धाम जगाम नाम ॥१॥ अपरस्तुअनिस्सरन्तीमपि गेहगर्भात् , कीर्ति परेषामसती वदन्ति । . स्वैरं भ्रमन्तीमपि वस्तुपाल!, त्वत्कीर्तिमाहुः कवयः सतीं तु ।२।' १० सेयं समुद्रवसना तव दानकीर्तिः पूरोत्तरीयपिहितावयवा समन्तात् । अद्यापि कर्णविकलेति न लक्ष्यते यत् तन्नाद्भुतं सचिवपुङ्गव ! वस्तुपाल ! ॥३॥ 'कश्चित् तुक्रमेण मन्दीकृतकर्णशक्तिः , प्रकाशयन्ती च बलिस्वभावम् । कैर्नानुभूता सशिरःप्रकम्पं,जरेव दत्तिस्तव वस्तुपाल !॥४॥ तेभ्यः कविभ्यः सहस्रलक्षाणि ददिरे । एवं गायनभट्टादिभ्योऽपि। यावज्जातं प्रातरेव तदा मल्लवादिभिः स्वसेवकाश्चैत्यद्वारद्वयेऽपि नियुक्ताः । एकं द्वारं अन्यदिशि एकं च मठदिशि । उक्तं च तेभ्यःमन्त्री चैत्यान्निःसरन् ज्ञापनीयः । क्षणेन वस्तुपालो मठद्वारान्निर्गच्छति यावत् तावता सेवकज्ञापिताः सूरयः समागत्य सम्मुखाः १ ग-'पाठश्चक्रे नवनवभङ्ग्या व्याख्यातः। अष्ट.' । २ वसन्त । ३ उपजातिः। । वसन्त । ५ग-'पुनः कश्चिदूचुः'। ६ उपजातिः। ७ ग-'चास्ति तेभ्वः '। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy