________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराये
मण्डितानि सत्राणि । सत्रे सत्रे मिष्टान्नानि । उपरि ताम्बूलानि च । तत्र ग्लाना वैद्या विविधाः प्रस्थापिताः । मन्त्रिव्यवस्थया दर्शनद्वेषो न । वर्णद्वेषो न । प्रतिवर्ष स्वदेशे सर्वनगरेषु वार तिस्रस्तिस्रः श्वेताम्ब - रेभ्यः प्रतिलाभना शेषदर्शनानामप्यच । मन्त्रिश्रीवस्तुपालस्य पत्न्यौ
ललितादेवि (वी) - सोनाम्न्यौ कल्पवल्लिकामधेनू इव । ललितादेव्याः सुतो मन्त्रिजयन्तसिंहः सूहवदेवि (वी) जानि: प्रत्यक्षचिन्तामणिः । तेजःपालदयिताऽनुपमाऽनुपमैव । पठितं च कविनालक्ष्मीश्चला शिवा चण्डी, शची सापन्यदूषिता ।
गङ्गा न्यग्गामिनी वाणी, वाक्साराऽनुपमा ततेः ॥ १ ॥ * श्री 'शत्रुञ्जया' दिषु 'नन्दीश्वरे' न्द्रमण्डपप्रभृतिकर्मस्थायाः प्रारम्भि- १० षत । आरासणादिदलिकानि स्थलपथेन जलपथेन च तत्र तत्र प्राप्यन्ते । तपसामुद्यापनानां च प्रकाशः ।
एकदा तौ भ्रातरौ द्वावपि मन्त्रिपुरन्दरौ महर्द्धिसङ्घोपेती श्रीपार्श्व नन्तुं ' स्तम्भनक 'पुरमीयतुः । प्रथमदिने ससङ्घौ तौ श्रीपार्श्वस्य पुरः श्रावकश्रेणिपुरःसरौ स्थितौ । तदा गीतगान - १५ रासादिमहारसः प्रवर्तते । तदवसरे तत्रव्यसङ्घोपरोधात् तत्रत्याध्यक्षाः सूरयो मल्लवादिनः समाकारिताः । ते यावद् देवगृहं प्रविशन्ति तावत् पठन्ति
अस्मिन्नसारे संसारे सारं सारङ्गलोचनाः ।
मन्त्रिभ्यां श्रुतं चिन्तितं च- अहो मठपतिगृहवद् देवगृहेऽपि २० शृङ्गाराङ्गारगर्भ पदद्वयं कथयन्नस्तीति । देवनमस्कारादिकमुचितमिह तन्नाधीते; तस्माददृष्टव्योऽसौ । उपविष्टः सूरिः सः । अन्येsपि सूरयः शतशः पङ्क्तौ निषण्णाः । मङ्गलदीपान्तेऽपरसूरिभिर्मलवादिन एवाssशीर्वादाय प्रेरिताः । मन्त्री पुरस्तिष्ठति । 'अस्मिन्नसारे संसारे सारं ' इत्यादि पादद्वयं भणितं तैः व्याख्यातं च तदेव । २५
२२१
१ घ - 'ताम्बूलानि वैद्याः दर्शन ० १ २ घ - 'सची ३ क - 'गतः । ४ अनुष्टुप् । ५ - ' तैरेव पठितम् ' । ६ ख - पथं प्रस्तौति' । ७ग - ' तत् किं ना० ' ।
ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org