________________
प्रवन्धः ]
प्रबन्धकोशेत्यपराह्वये ज्ञातं ज्ञानेन । तैः सह तत्र गता । पउमिणि-कोमलौ दृष्टौ तथा कायोत्सर्गस्थौ । कृपाभक्ती जाते । गुहाद्वारं गत्वा स आक्षिप्तः क्रूरः । रे किमिदं करोषि ? । युध्यस्व चेत् समर्थोऽसि । रत्नं रक्षामो वयं क्षेत्रपालाः । अहं अम्बा जगदम्बा । तथोक्ते घुघुरितः सः । युद्धं ववृते । यावता सोऽम्बया पादे धृतः शिरः परितो भ्रामयित्वा स्फालयिष्यते ग्रावण्युग्रे तावत् प्रत्यक्षो दिव्यमूर्तिः पुरतो नरो ददृशे । रत्नश्च पुरः दिव्याभरणाङ्गरागी सप्रियः सपुत्रः सुखी। ऊचे च स दिव्याङ्गः-अम्बे ! क्षेत्रपाः ! श्रीरत्न ! शृणुत । यदा 'रैवत'महिमानं गुरुर्जगौ तदाऽनेन रत्नेन प्रतिज्ञा कृता---मया प्राणव्ययेनापि नेमिर्वन्दनीय एवेति, तदाऽहं वैमानिकः सुरः १० शङ्करो नाम तत्र उपगुरु विषण्ण आसम् । मया न सोढा साऽस्य सन्धा । 'तेनात्रागत्य एवमुपद्रुतोऽयं रत्नः महासत्त्वः । धन्याऽस्य जाया, पुण्यवानङ्गजः, श्लाघ्या यूयं सङ्घभक्ताः साहाय्यकराश्च । अहं यदि सत्येनैव युध्येयं तदा भवद्भिर्न जीयेय, परं क्रीडामात्रमेतदमलिनमनसा कृतमिति । रत्नैर्वृष्ट्वा रत्नमालिङ्ग्य सङ्घमध्ये १५ मुक्त्वा स्वयं द्यां ययौ । अम्बाद्या गिरिमगुः । सङ्घो ' रैवतक'मारुरोह । नेमि ननाम । लेप्यमूर्ती नेमौ तथा स्नानं जलैस्तेने यथा बिम्बं घटीद्वयेन गलित्वा मृद्भूय भूम्या सह मिलितम् । विषण्णाः सर्वेऽपि । विशेषतस्तु रत्नः । अचिन्तयच्च धिग् मामाशातनाकारिणं येन एवंविधतीर्थध्वंसवृजिनभाजनं जातोऽस्मि । २० अथ तदा भोक्तव्यं यदा तीर्थ पुनः स्थापितं भविष्यति । इत्युक्त्वा बान्धवौ सङ्घरक्षायै नियुज्याऽम्बां ध्यात्वा तपस्तेपे । षष्टयुपवासान्ते अम्बा प्रत्यक्षीभूय तं 'काञ्चनबलाना'ख्ये इन्द्रनिर्मिते निशि निनाय । तीर्थे तत्र द्वासप्ततिजिनबिम्बानि महाकायान्यदीदृशत् । तत्राष्टादश हैमानि, अष्टादश रत्नानि, अष्टादश राजतानि, अष्ठा- २५
१ 'सुरः' इत्यधिको ग- पाठः। २ घ- 'अनागत्य' । ३ पत्नी। 'तीर्थविध्वंस:' । ५ ग-पुस्तके अथ' इत्यधिकः पाठः।
ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org