SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [२३ श्रीरत्न श्रावकस्नेहो न ज्ञायते देव !, प्रणामान्न मृदूक्तितः । ज्ञायते तु कचित् कार्ये, सद्यः प्राणप्रदानतः ॥१॥ पउमिणिते ----कुलस्त्रियः पत्यधीनाः प्राणाः । पत्यौ लोकान्तरिते जीवन्त्यपि मृताः, शृङ्गारावभावात् । यथा शशिना सह याति कौमुदी, सह मेधेन तडिद् विलीयते। प्रमदाः पतिवम॑गा इति, प्रतिपन्नं हि विचेतनैरपि ॥१॥' भर्तरि मृते नार्याऽनुमतव्यम्-तावद् यदि मयि मृतायां त्वं जीबसि तदा किं न लब्धं मया ? । कोमलः प्राह-तात ! . एकदेहविनिर्माणा-दधमणीकृतैः सुतैः ।। १० यशोधर्ममयं देह-द्वयं पित्रोविनिर्यतम् ॥१॥ इत्येवं वदतस्तान् सर्वान् युक्तिभिर्बादं निषेध्य स्वयं मर्तु स्थिताः । सङ्घो वहन् कृतः । कालपुरुषेणोपद्रवो न कृतः । गते तु सङ्के रत्नः श्रीनेमिपरायणः स्थिरः तस्थौ । पउमिणिनाग्रे गता। परत्र स्थित्वा कायोत्सर्गमधात्, कोमलोऽपि तथैव । कापुरुषेण रत्नो १५. गिरिगुहायामेकस्यां क्षिप्तः । द्वारि शिलां दत्त्वा पुच्छं आच्छोटयति। सिंहनादैः ख बधिरयति । तथापि रत्नो न बिभेति । हृदि स्थिरो जिनरागः । अत्रान्तरे कूष्माण्डी वन्दितुं 'रैवत शिखरे क्षेत्रपतयः सप्त कालमेघ १ मेघनाद २ गिरिविदारण ३ कपाट ४ सिंह२० नाद ५ खोटिक ६ रैवत ७ नामानो मिलिताः । ते देवी वन्दित्वा ऊचुः---देवि ! क्वापि पर्वतो धडधडायते । ईदृशं वापि पूर्व न वृत्तं यादृगधुना वर्तते । ततः पश्य किमिदम् ? । कापि पुरुषो महानेक उपद्रूयमाणोऽस्ति केनापि क्रूरेण । अम्बया १ अनुष्टप् । २ वियोगिनी वैतालीयसुन्दरीत्यपराह्वया । ३ क- 'विनिर्यते', ब- 'मितीर्यते', घ- 'वितीयते'। र अनुष्टुप् । ५ घ- 'युक्तिभिर्निविष्य' । घ- 'तथा' । . ग- 'जातं'। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy