________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराह्वये युद्धोवतं श्रुत्वा 'कासी'न्द्रः सुभीतः प्राणत्राणार्थ गतः । अन्यैब तव पिण्डशक्तिः ।
गतिरन्या गजेन्द्रस्य, गतिरन्या खरोष्ट्रयोः ।। गतिरन्यैव सिंहस्य, लीलादलितदन्तिनः ॥१॥ कः सिंहस्य चपेटपाटिनमहामातङ्गकुम्भस्थल
स्थूलास्थिस्थपुटीभवत्परिसरां लीलागुहां गाहते ? । कः काकोदरभर्तुरुद्धतविषज्वालावलीढस्फुरत्
फूत्कारावलिघोरमास्य कुहरं साडम्बरश्चम्बति ? ॥२॥ अथ चापल्यावौकते कश्चित् तयोः तथापि क्षेमः कुतः ? । अतः स्वकीयमन्तुक्षमणोपायोऽयं तस्य । कास्यासनं गतः 'कास्या'ऽधि- १० पोऽपि विद्याधरमादिशत्- 'लक्षणावती'शदण्डधनं चतुर्दिग्मिलितेभ्योऽर्थिभ्यो देहि येन यशांसि प्रैधन्ते । विद्याधरोऽपि खामिनं निगदति- देव! कुमारदेवेन मह्यं रत्नमेकं दण्डपदे 'दत्तम् । तेन सद्यः कथं हेम निष्पद्यते ? । राजोचे- तर्हि रत्नं दर्शय । अथ तेन पत्रीगतः श्लोकोऽदर्शि, कुमारदेवागमनवृत्ता- १५ न्तश्च प्रोक्तः । विद्याधरमुखाच्च तदवधार्य जयन्तचन्द्रो जजल्प अनल्पधी:- मन्त्रिन् ! तदैव किं नेयं पत्री दर्शिता येन तेभ्यो विशिष्टां कृपां कुर्मस्तदैव । त्वया खधनार्पणाङ्गीकारेणैव वयं तत उत्थापिताः । प्रापितो दण्डोऽस्मभ्यं किल तेन । अथ हेमाष्टादशलक्षाणि कोशादाकृष्यार्थिभ्यो देहि । अष्टादश हेमलक्षास्तु कृपा- २० प्रसादपदे लक्षणसेनाय, अष्टौ हेमलक्षाः कुमारदेवाय प्रेषय । तथैव कृतं विद्याधरेण । प्रविष्टौ 'कासी' तौ । स्फीतं राज्यं भुङ्क्तः। षड्विंशतिहेमलक्षेषु तत्र गतेषु लक्षणसेनेन कुमारदेवः पृष्टः
१ 'अन्यैव' इत्यारभ्य क्षमणोपायोऽयं तस्य'पर्यन्तः पाठः ग-पुस्तके नास्ति । २ अनुष्टुप् । ३ शार्दूल । घ-'अपचापल्या०' । ५ ग-'स्माई' । ६ क-'दत्तमस्ति' । ७ ख-घ-'तेन'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org