________________
१८२
चतुर्विशतिप्रबन्धे [२० श्रीलक्षणसेनविद्याधरं आत्मानमायान्तमजिज्ञपत् । सद्य आहूतस्तेन । आसितः खसमीपे, पृष्टश्च- 'के भवन्तः ? । मन्त्रिणोक्तम्- अहं लक्षणसेनाऽमात्यः कुमारदेवस्त्वां द्रष्टुमायासिषम् । किञ्चिद् वक्तव्यमस्ति। तत् तु वक्तुं न शक्यते । पत्री तु लिखिता वक्ष्यति। इत्युक्त्वा विद्याधरहस्ते तामार्पिपत् । तत्र श्लोको दृष्टः
उपकारसमर्थस्य, तिष्ठन् कार्यातुरः पुरः । मूर्त्या यामातिमाचष्टे, न तां कृपणया गिरा ॥१॥
अस्य श्लोकस्यार्थं चिरं परिभाव्य विद्याधरोऽचिन्तयत्- अयं महीयान् मदन्तिकमागतः । जयन्तचन्द्रापसारणमीहते दण्डं च १० न दित्सते । मैय्येव भारमारोपयति । तस्मानिस्तार्योऽसौ व्यसनसागरात् ।
स एव पुरुषो लोके, स एव श्लाध्यतामिह ।
निर्भयं सर्वभूतानि, यस्मिन् विश्रम्य शेरते ॥१॥ इति ध्यात्वा कुमारदेवं जगाद--- मा भैषीः, दण्डं मा दाः, १५ प्रातरत्रास्मत्सैन्यं न स्थास्यत्येव, गच्छ । इत्युक्त्वा कुमारदेवं
सत्कृत्य व्यस्राक्षीत् । गतः स स्वस्वामिलक्षणसेनसविधम् । ___ इतश्च विद्याधरो जयन्तचन्द्रान्तिकं गत्वा विज्ञप्तवान्राजेन्द्र ! अद्य देवस्यात्रागतस्य दिनाष्टादशकं गतम् । कुमारदेवेन स्वयमेत्य ममाष्टादश हेमलक्षाणि प्रवेशितानि, 'अतोऽभयं देहि, प्रसीद, स्वस्थानं गच्छ, 'कास्या'मपि मुक्तायां निर्वाहो नास्ति, दुर्ग्रहं च दुर्गम् । इति श्रुत्वा 'कासी'न्द्रः सद्यो रात्रावेव चलितः, दशकोशी गत्वा स्थितः स्वनगर्याभिमुखीभिः पटकुटीभिः । 'लक्षणावती'लोको विस्मितो दृष्टश्च । लक्षणसेनेन कुमारदेवः पृष्टः- किमिति गतो जयन्तचन्द्रः? । मन्त्रिणोक्तम्- देव! त्वां
१ ग-'कि' । २ अनुष्टुप् । ३ क-'ममाप्येवं सा(भा)र०' । ४ अनुष्टुप् । ५ क'स्वस्थाने' । ६ ग-पुस्तके 'अतः' इत्यधिकः पाठः'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org