________________
१२३
प्रबन्धः ]
प्रवन्धकोरोस्यपराह्वये मां व्यजगुपत् । किमहं करोमि ! । मन्त्र्याह - तमेव शरणं श्रय । यतः- ' भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलैः ' इति न्यायात् । पण्डितः- तर्हि मां नय । तथा कृतं मन्त्रिणा । पण्डितसोमेश्वरं बहिरासयित्वा मन्त्री स्वयं हरिहरान्तिकमगात् । बभाण च-पण्डितसोमेश्वरदेवस्तवान्तिकमागतोऽ- ५ स्ति विज्ञीप्सुः । हसितो हरिहरः । आनीनयत् स्वसमीपम् । चकाराभ्युत्थाना-ऽऽलिङ्गन-महासनादिसत्कारम्। सोमेश्वरेणोक्तम्पण्डित ! निस्तारय मामस्मात् परकाव्यहरणकलङ्कपङ्कात् । यतः
आगतस्य निजगेहमप्यरे-ौरवं विदधते महाधियः । १० मीनमात्मसदनं समेयुषो, गीष्पतिळधित तुङ्गतां कवेः ॥१॥ तुष्टो हरिहरो भणति स्म-मा स्म चिन्तां विधाः । पुनर्गौरवमारोपयिताऽस्मि त्वाम् । गतः स्वस्थानं मन्त्री सोमेश्वरश्च । प्रत्यूषे राणकसभामरे सोमेश्वर आह्वायितः । प्रस्तावना चारब्धा । यथाजयति परमेश्वरी भारती यत्प्रसादादेवं मम शक्तिः । श्रीवस्तुपाले- १५ नोक्तम्- किं किम् ? । हरिहरः-देव ! मया 'काबे(वे?)री'नदीतटे 'सारखत'मन्त्रः साधितः । होमकाले गीर्देवी प्रत्यक्षाऽऽसीत् । वरं वृणीष्वेल्याह स्म । मया जगदे-जगदेकमातः ! यदि तुष्टाऽसि तदा एकदा भणितानां १०८ सङ्ख्यानां ऋचां षट्पदानां काव्यानां वस्तुकानां घेत्तानां दण्डकानां वाऽवधारणे समर्थो २० भूयासम् । देव्याचष्ट-- तथाऽस्तु । ततःप्रभृति यो यदाह १०८ तत् तु ब्रुवे, यथेदं सोमेश्वरदेवोपझं काव्याष्टोत्तरशतम् । राणकेनोक्तम्- प्रत्ययः कार्यताम् । भाणितान्यष्टोत्तरशतानि तत्तच्छन्दसां प्रतिभाणितानि च हरिहरेण तानि । जातो निश्चयः पण्डितहरिहरवचने । क्षुत्तृष्णातपप्रभृतिचिन्तानपेक्षः स्थितो २५
१ रथोद्धता' । २ घ--'घताना' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org