________________
१२१
चतुर्विशतिप्रबन्धे
[१२ श्रीहरिहर
देव ! स्वर्नाथ ! कष्टं ननु क इह भवा'चन्दनो'चानपाल:
खेदस्तत् कोऽद्य केनाप्यहह हृत इतः काननात् कल्पवृक्षः । हुं मा वादीस्तदेतत् किमपि करुणया मानवानां मयैव
प्रील्याऽऽदिष्टोऽयमुास्तिलकयति तलं वस्तुपालच्छलेन ॥१॥ एवं तत्रालापं श्रुत्वा विस्मितोऽहं भारत्या सह पञ्चकल्पद्रुमं त्वां द्रष्टुमागाम् । एवं विस्तरं काव्यं व्याख्याय स्थितः पण्डितः । मन्त्री यावत् किं. ददामि इति चिन्तयति तावद् 'डोडीया'वंश्यराणभीमदेवेन जात्या वाहनोत्तीर्णाश्चतुर्विंशतिरश्वा एकं च दिव्यं पदकं
प्राभृतमानीतम् । तदेव पण्डिताय सर्व दत्तम् । तुष्टोऽसौ पश्चम१० कल्पतरुभवसि इत्युक्त्वा स्वोत्तारकमगात् ।
गतेषु कतिपयेष्वहःसु मिलितायां समायां पुरःस्थे सोमेश्वरे राणकेन पण्डितहरिहर उक्तः- पण्डित ! अत्र पुरेऽस्माभि वीरनारायणा'ख्यः प्रासादः कारितोऽस्ति । तत्प्रशस्तिकाव्यान्यष्टोत्तरं शतं
सोमेश्वरदेवपार्थात् कारितम् । तत्र भवन्तोऽवदधतु । यथा शुद्धत्वे १५ निश्चयो भवति ज्ञान(ना.)म् । महालक्ष्मीदृष्टौ नाणकपरीक्षा यतः ।
हरिहरेणोक्तम्-कथाप्यतां तानि । उक्तानि सोमेश्वरेण तानि । श्रुत्वा तानि हरिहर ऊचे-देव ! सुष्ठ काव्यानि परिचितानि च नः । यतो 'मालवीये 'घूजयन्ती' गतैरस्माभिः 'सरस्वतकिण्ठाभरण'प्रासादगर्भगृहे पट्टिकायां श्रीभोजदेववर्णनाकाव्यान्यमून्यदृक्षत । यदि तु प्रत्ययो नास्ति तदा परिपाट्या श्रूयताम् । इत्युक्त्वा क्रमेणास्खलितान्यपाठीत् । खिन्नो राणकः । प्रीताः खलाः । व्यथिताः श्रीवस्तुपालादयः सज्जनाः । उत्थिता सभा । हत इव मृत इव स्तम्भित इव जडित इव जातः सोमेश्वरः । गतः स्वगृहम् । ह्रिया
वदनं न दर्शयति गृहेऽपि, का कथा राजादिसदनगमनस्य । २५ अथ सोमेश्वरः श्रीवस्तुपालमन्दिरं गत्वोवाच-मन्त्रिन् ! ममैव
तानि काव्यानि, नान्यथा; मम शक्तिं जानासि त्वम् । हरिहरस्त्वेवं १ स्रग्धरा । २ 'नाणु' इति भाषायाम् । ३ क--'श्रूयन्ताम्' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org