________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराये चौलुक्येन श्यामल ऊचे- कथमयं निवर्तते ? । श्यामलो गदति स्म- स्वामिन् ! श्रीजयसिंहदेवे विपन्ने ३० दिनानि पादुकाभ्यां राज्यं कृतम् । 'मालवीय राजपुत्रेण चाहडकुमारेण राज्यं प्रधानपार्श्वे याचितम् । प्रधानैस्तु परवंश्यत्वान्न दत्तम् । ततो रुष्ट्वा चाहड आनाकसेवकः सञ्जातः । स भगदत्तनृपवन्महामात्रधुर्यः, ५ अतुलबलः । तस्य सिंहनादेन कलहपञ्चाननः क्षुभ्यन् पश्चानिवर्तते । किमत्र क्रियते न विमः । चौलुक्यस्तदाकर्ण्य द्विपटी विदार्य फोलिकद्वयेन द्वौ गजकर्णी पूरयामास । ततश्चाहडसिंहनादमशृण्वन् कलहपश्चाननः स्थिरतरः स्थितो गिरिवत् । वर्तते 'षट्त्रिंशदायुधैर्युद्धम्। चमत्कृते द्वे अपि सैन्ये । उदासीनतया प्रथमं १० स्थिता 'चौलकीया' श्चकम्पिरे भयेन अहो एकाङ्गमात्रस्यापि कुमारदेवस्यासमसमरसम्पल्लम्पटत्वम् ! । सैन्ययोयुद्धमपि निवृत्तम् । तावेव युध्येते । अत्रान्तरे चौलुक्यो विद्युदुत्क्षिप्तकरणं दत्त्वा *आनाकगजपतिस्कन्धमारूढः । क्षिप्तौ भुजौ राजोपरि । कसणकानि रिकया च्छित्त्वा आनाकं सर्दञ्चकं च भूमौ पातयित्वा १५ योक्तृबन्धं क्षिप्त्वा हृदि पादं दत्त्वा छुरी कराने गृहीत्वा अवादीत्-रे वाघाट ! मूढ ! निर्धर्मन् ! पिशाच! स्मरसि मद्भगि. न्यग्रे 'मारय मुण्डिकान्' इति वदिष्यसि । पूरयामि निजभगिनीप्रतिज्ञाम् । छिनग्नि ते दुर्वाक्पङ्कदूषितां जिह्वाम् । इत्येवं वदति कृतान्तदुष्प्रेक्ष्ये चौलुक्ये 'सपादलक्षीयः' किञ्चिन्नाचख्यौ, केवलं २० तरलतारकाभ्यां चक्षुभ्यामद्राक्षात् । चौलुक्योऽप्युत्पन्नलोकोत्तरकरुणापरिणामः प्रामाणीत् -रे जाल्म ! मुक्तोऽसि, न भगिनीपतित्वेन, किन्तु कृपापात्रत्वेन । पूर्व तव देशे टोपीबंधाग्रभागे जिह्निके
१ ग 'परवंशत्वान्न'। २ ख-'फालक०'। ३ एतन्नामार्थ दृश्यता पमानन्दमहाकाव्यम्य परिशिष्टं (पृ. ५८९-५९० )। ग-'प्रथमस्थिता-'। ५ ख-घ'लम्पद्वत्वम्' । ६ क-'किरणं'। क- आनक०' । ८ 'ढाँचो' इति भाषायाम् । ९ क-घ-'नाचख्यात्। १० ग-वधेऽप्र.'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org