________________
श्रीतपामणपति-गुणपद्धति विधाय श्रीसीरोहीनगरे प्राप्तास्तदा तन्नायकेन राज्ञा श्रीसुरत्राणसझेन, वह्वाडम्बरपूर्वकं सन्मानिताः । ततः क्रमेण श्रीराणपुर-वरकाणकपार्श्वनाथादियानां कृत्वा स्वजन्मनगरी नारदपुरीं च गत्वा क्रमेण मेदनीपुर-डीएडूयाणक-वैराट-महिमनगरादिषु भव्यलोकान् कोकान् सूर्या इव श्रीसूरिधुर्या उद्बोधयन्तो लोधिप्राणायामे समेयुः । तत्र श्रीशाहिमान्यशेखश्रीश्रबलफजल-5 भ्रातृजन्मा फय जीनामा श्रीसूरोन्नन्तुमागतः । तत्रानेकलोकविधीयमानबहुमानस्वरूपं स्पष्टाष्टावधानादिसाधकशिष्यश्रेणिस्वरूपं च दृष्ट्वाऽतीवचमत्कृतचेतास्ततस्त्वरितं लाहोरनगरे गत्वा श्रीशाहिपुरतस्तमुदन्तं यथादृष्टमभ्यधात् । तच्छ्रुत्वा शाहिरपि घनाघनानीलकण्ठ इव श्रीगुरून द्रष्टुं सोत्कण्ठोऽभूत् । ततः क्रमेण श्रीसूग्योऽपि शाहिप्रदत्तोद्यद्वाद्यवादनानेकानेकतुरङ्गमविचित्र- 10 वैजयन्तीतोरणधोरणीरमणीयमहामहपुरस्सरं लाभपुरं पुरं प्रविश्य तदिन एव श्रीशेखजीदरबारीरामदासप्रमुखप्रधानपुरुषद्वारा काश्मीरीमहलनाम्नि धाग्नि श्रीशाहेर्मिलिताः। शाहिरपि गुरून वीक्ष्य परमप्रमोदमेदुरः सन् श्रीहीरविजयसूरीणामुदन्तं वर्त्मनि कुशलोदन्तं च पृष्टवान् । श्रीगुरुभिरपि श्रीहीरसूरिभिर्भवतां धर्माशीर्वादो दत्तोऽस्तत्य युक्तं । भृशं तुष्टः सन्नष्टावधानानि 15 द्रष्टुकामोऽस्मीति गुरूनाचष्ट । ततो गुज्ञया गुरुशिष्यश्रीनन्दविजयाभिधविबुधसाधिताष्टावधानानि द्रष्ट्वा वचनागोचरं चमत्कार प्राप्तः । प्रसन्नः सन् महाऽऽडम्बरपूर्वकं स्वस्थानं प्रापयतामिति स्वजनानादिश्य स्वं धामागमत् । अथेष्टवैद्योपदिष्टमितिमन्यमानै राजमान्यैर्वदान्यैस्तत्रत्यास्तिकजनैरष्टदिनानि यावत् केवलं रूप्यकैरेव प्रभावनाद्याडम्बरस्तथा कृतो यथा जैनं राज्यमेक- 20 च्छत्रमिवजातमिति । गुरूणां गौरवमसहमानेन केनचिद् भट्टेन-अमी जैना जगदीश्वरं १ भास्करं २ गंगां ३ च नमन्यन्ते तेन हे श्रीशाहे ! भवादृशां भूभुजां नैतेषां दर्शनं योग्यमिति श्रुत्वा गुप्तकोपो भूपोऽन्यदा समायातान् श्री अनूचानपुङ्गवान् तद्विजोक्तमुक्तवान् । ततस्तत्खलविलसितं मत्वा तत्कालोत्पन्नस्वसमयपरसमयस्मृतिसूक्तिशुक्तिसमुद्रैः श्रीसूरीन्द्रस्तदीयशालसम्मत्यैव 25 खाभीष्टजगदीश्वर-स्वरूपं निरूपित ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org