________________
तपागच्छ-पट्टावली दधिके १४५५ स्वर्गः ।। सिध्यांतालापकोद्धारः, विश्वश्रीधरेत्यादिअष्टादशारचक्रबंधस्तव-गरीयोव्हारबंधस्तवादयश्च तत्कृतग्रन्थाः॥
श्रीगुणरत्नसूरीणां चासाधारणो नियमः ॥ तदुक्तम् (गुलश्लो० ३८१) जगदुत्तरो हि तेषां, नियमोऽवष्टंभरोषविकथानां
आसन्नां मुक्तिरमां, वदति चरित्रादिनैर्मल्यात् ॥१॥ इति तत्कृताश्च प्रथाः-क्रियारत्नसमुच्चयः षडदर्शनसमुषयवृहवृत्त्यादयः ।। श्रीसाधुरत्नसूरीण कृतिर्यतिजीतकल्पवृत्त्यादिकति छ॥ ५०-पएणोत्ति श्रीदेवसुन्दरसूरिपट्टे पंचाशत्तम श्रीसोमसुन्दरसूरिः ।
तस्य वि० त्रिंशदधिके चतुर्दशशत१४३०वर्षे मा० ब० चतुर्दश्यां १४ शुक्रे जन्म, सप्तत्रिंशदधिके १४३७ व्रतं, पंचाशदधिके १४५० वाचकपदं 10 सप्तपंचाशधिके १४५७ सूरिपदं ॥ यमष्टादशशत१८००साधुपरिकरितं सक्रियापरायणं महामहिमालयं गुरुं दृष्ट्वा रुष्टैर्द्रव्यलिंगिभिरेकः पंचशतद्रविणदानेन सशस्त्रः पुमांस्तद्वधायोदीरितः। स च दुर्धिया वसतौ प्रविष्टो यावदनुचितकरणाय यतते तावश्चन्द्रोद्योते जाते सति निद्रालुभिरपि श्रीगुरुभी रजोहरणेन प्रमृज्य पावं परावर्तितं,तद्दृष्ट्वाऽहो निद्रायामपि क्षुद्रप्राणिकृपा- 15 परमेनमपराध्य "कस्यां गतौ मे गति" रिति विचारणया परलोकभीतो गुरुपादयोर्निपत्य “क्षमध्वं मेऽपराध मिति वचसा गुरुं प्रबोध्य निजव्यतिकरं कथितवान् । सोपि गुरुभिर्मभुरवाचा तथोदीरितो यथा प्रव्रजित इति वृद्धवचः॥
तथा यस्य ज्ञानवैराग्यनिधेर्गुणगणप्रतीतिः परपक्षेऽपि प्रतीता । तदुक्तं गुरुगुणरत्नाकरे (सर्ग १ श्लोक ६२)--
20 आकर्ण्य यद्गुणगणं गृहिणः प्रहृष्टा, लेखेन दुष्कृतततीरतिदूरदेशात् ॥ विज्ञप्य केपि कृतिनः परपक्षभाजोऽप्यालोचनां जगृहुरास्यकजेन येषांशा
इति ॥ तत्कृतिश्च योगशास्त्रोपदेशमालाषडावश्यकनवतत्वादि- . बालावबोधभाष्यावचूर्णिकल्याणकस्तोत्रादिनीति ।
तच्छिश्यास्तु-श्रीमुनिसुन्दरसूरिः१, कृष्णसरस्वतीबिरुदधारकश्री- 25 जयसुन्दरसूरिः २, महाविद्याविडंबनटिप्पनकारकश्रीभुवनसुन्दरसूरिः ३.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org