________________
पट्टावली - समुच्चयः
१ तस्मात् श्रीमहावीरस्य पट्टे उदये च प्रथमः श्रीसुधर्मस्वामी पंचमो गणधरः । सच किंलक्षणो ? गणस्वामी यत एकादशानामपि गणधर - पदस्थापनावसरे श्रीवीरेण श्रीसुधर्मस्वामिनं पुरस्कृत्य गणोऽनुज्ञातः दुष्प्रसहं यावत् श्रीसुधर्मस्वाम्यपत्यानामेव प्रवर्तनात् ॥ तत्पट्टोदयेत्यत्रोदयपदं प्रथमोदयस्यापि प्रथमाचार्यः श्रीसुधर्मेति सूचकं । स च पंचाषद्- 5 र्षाणि ५० गृहस्थपर्याये, त्रिंशद्वर्षाणि ३० श्रीवीरसेवायां, वीरे निर्वृते वा द्वादशवर्षाणि १२ छाद्मस्थ्ये, अष्टौ ८ वर्षाणि केवलिपर्याये चेति, सर्व्वायुः शतमेकं १०० परिपाल्य श्रीवीराद्विंशत्या २० वर्षेः सिध्धिं गतः ॥ श्रीवीरज्ञानोत्पत्तेश्चतुर्दश १४ वर्षे जमालिनामा प्रथमो निह्नवः । षोडश १६वर्षे तिष्यगुप्तनामा द्वितीयो निह्नवः ॥ २ ॥
10
४२
बीओ जंबू २ तईओ, पभवो ३ सिज्जंभवो चउत्थो अ पंचमओ जस मो ५, छो संभूय-भद्दगुरू ६ ॥३॥ २ - तत्पट्टे श्रीजंबूस्वामी ॥ ३- तत्पट्टे श्रीप्रभवस्वामी ॥ ४- तत्पट्टे श्री शम्यं भवस्वामी ॥ ५- तत्पट्टे श्री यशोभद्रस्वामी ॥ ६- तत्पट्टे श्रीसंभूतविजय श्रीभद्रबाहुस्वामिनी ||
व्याख्या - २ - बीश्रो जंबूत्ति, श्रीसुधर्म्म स्वामिपट्टे द्वितीयः श्रीजंबूस्वामी । सच नवनवतिकोटिसंयुक्ता अष्टौ कन्यकाः परित्यज्य श्रीसुधर्मस्वाम्यंतिके प्रत्रजितः । स च षोडश १६वर्षाणि गृहस्थपर्याये, विंशतिवर्षाणि २० व्रतपर्याये, चतुश्चत्वारिंशद्वर्षाणि ४४ युगप्रधान - पर्याये चेति, सर्वायुरशीतिवर्षाणि ८० परिपाल्य श्रीवीरत् चतुःषष्ठि ६४ 20 पैः सिद्धः ॥ अत्रि कविः -
मत्कृते जंबुना त्यक्ता, नवौढा नवकन्यकाः ।
तन्मन्ये मुक्तिवध्वाऽन्यो, नवृतो भारतो नरः ॥ १ ॥
चित्तं न नीतं वनिताविकारैर्वितं न नीतं चतुरैश्च चौरैः ॥ द्वितयं निशीथे, जंबूकुमाराय नमोस्तु तस्मै ॥ २ ॥
Jain Education International
15
For Private & Personal Use Only
25
www.jainelibrary.org