SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ [७] श्रीतपागच्छपट्टाकली सूत्रम् स्वोपज्ञया वृत्या समलंकृतम् ( कर्ता-महोपाध्यायश्रीधर्मसागरगाण:) ॥६०॥ तपागच्छाधिराजश्रीहीरविजयसूरिगुरुभ्यो नमः । अथ गुरुपरिपाटीकथनाय संगतिमाह। सिरिमंतो सुहहेज, गुरुपरिवाडीइ आगओ संतो ॥ पज्जोसवणाकप्पो, वाइज्जइ तेण तं वुच्छं ॥१॥ 5 व्याख्या-सिरमंत्तोत्ति, यत्तदोर्नित्याभिसंबंधात् येन कारणेन श्रीमान् सश्रीकः श्रियां मंत्रो वा पर्यषणाकल्पो गुरुपरिपाट्या समागतः सन् वाच्यते । उपलक्षणात् श्रूयते च । किंलक्षणः! शुभहेतुः स्वर्गापवर्गकारणं । तेन कारणेनाहं तां गुरुपरिपाटीं वक्ष्ये इत्यन्वयः । श्रीमानिति विशेषणं तीर्थकरचरित्रस्थविरावलीनामकीर्तनपुरस्सरं साध्वाचारप्रतिपादनेन सर्वे- 10 ध्वपि मंगलभूतेषु श्रुतेषु सश्रीकत्वमस्यैवेति ख्यापनपरमिति । गुरुपरिपाट्यागत इति च विशेषणं । गुरुपरिपाट्यागतयोगाद्यनुष्ठानविधिनैव वाच्यमानः । एगग्गचित्ताजिणसासणम्मि, पभावणापूअपरायणा जे। इत्यादि विधिना च श्रूयमाणः शुभहेतुर्मोक्षफलहेतुर्नान्यथेति ज्ञापनपरमिति गाथार्थः ॥१॥ गुरुपरिवाडीमूलं, तित्थयरो वध्धमाणनामेणं ॥ तप्पहोदयपढमो, सुहम्मनामेण १ गणसामी ॥२॥ श्रीवर्धमानतीर्थकरः ॥ १-तत्पढे श्रीसुधर्मस्वामी ॥ व्याख्या-गुरुपडिवाडित्ति, गुरुपरिपाट्या मूलमायं कारणं वर्षमान नाम्ना तीर्थकरः । तीर्थकृतो हि आचार्यपरिपाट्या उत्पत्तिहेतवो भवति नपुनस्तदंतर्गताः । तेषां स्वयमेवतीर्थप्रवर्तनेन कस्यापि पट्टधरत्वाभावात् ॥ 20 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002624
Book TitlePattavali Samucchaya Part 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy