________________
उपकेशगच्छीया पट्टावलिः
1
१८७ न्धिनां सञ्जातं । ततः श्रचार्येण ते सम्यक्त्वधारी कृता । एकदा प्रोक्तं भो यूयं श्राद्धा तेषां देवीनां निर्दयचित्ताया महिष बोत्कटादि जीववधास्थि भंगशब्द श्रवण कुतुहलप्रियया अविरतायाः रक्तांकितभूमितले आर्द्रचर्म्मबद्धवंदनमाले निष्ठुरजनसेवितं धर्मध्यानविद्यापके महावीभत्सरोद्रे श्री सञ्चिकादेवि गृहे गंतु न बुध्यते । इति आचार्यवचः श्रुत्वा ते प्रोचुः प्रमोयुक्तमेतत् परं रौद्रा देवी यदि छलिस्याम तदा सा कुटुम्बान् मारयति । पुनराचार्यैः प्रोक्तं श्रहं रक्षां करिस्यामि । इत्याचार्यवाक्यं श्रुत्वा ते देवी गृहे गमनात् स्थिताः । आचार्याणां प्रत्यक्षीभूय देव्या सकोपमि - त्युक्तं श्राचार्य मम सेवकान् मम देवगृहे आगच्छमानान् निवारणाय त्वं न भविष्यति । इत्युक्त्वा गता देवी परं सातिशय कालभावात् महाप्रभा- 10 वात् अनेक सुरकृतप्रातिहार्ये आचार्ये देवी न प्रभवति । एकदा छलं लब्ध्वा देव्या आचार्यस्य कालवेलायां किंचित् स्वाध्यायादि रहितस्य वामनेत्र भ्रूरधिष्टिता । वेदाना जाता । श्राचार्यैः यावत् सावधानीभूय पीडायाः कारणं चिंतितं तावत् देवी प्रत्यक्षीभूय इति प्रोक्तं मया पीडा कृता । श्रहं स्वशक्त्या त्वां स्फेटयिष्यामि इति सावष्टंभ आचार्योक्तं श्रुत्वा समयाकूतं सा 13 विनयं प्रोक्तं भवादृशानां ऋषीणां विग्रहं विवादो न युक्तः । यदि त्वं कडडमडडं ददासि तदाहं वेदनां अपहरामि । श्रचन्द्रार्कं त्वतकिंकरी भवामि इति श्रुत्वा श्राचार्यैः प्रोक्तं कडडमडडं दापयिष्यामि । यत्युक्ता गता देवी । प्रभाते श्रावकानामाकार्य तैः पक्कान्न खज्जकादि सुंडकद्वयं कप्पूरकुंकुमादिभोगच आनीय श्रीसञ्चिकादेवी देवगृहे श्रीरत्नप्रभाचार्यः श्रावकैः सार्धं 20 गतः । ततः श्रावकैः पार्श्वात् पूजां कराप्य वामदक्षिणहस्ताभ्यां पक्वान्नसुंडकादि चूर्णयद्भिः आचार्यैः प्रोक्तं देवी कडडमडडं दत्तमस्ति । अतः परं ममोपासिका त्वं इति वचनानन्तरं एव समीपस्थ कुमारिका शरीरे आवेशः कृतः । ततः प्रोक्तं प्रभो मया अन्यं कडडमडडं याचितं श्रन्यं दत्तं । श्राचार्यैः प्रोक्तं त्वया वधो याचितः स तु लातुरं दातु न बुध्यते इत्यादिसिद्धान्तवाक्यं 25 कुमारी शरीरस्था श्रीसञ्चिकादेवी सर्वलोक प्रत्यक्षं श्रीरत्नप्रभाचार्यैः प्रतिबोधिता । श्री उपके पुरस्था श्रीमहावीरभक्ता कृता सम्यक्त्वधारिणी संजाता !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org