SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्रीपट्टावलीसारोद्धारः २५६ जन्म, संवत्१५६६वर्षे कार्तिकवदिरदिने दीक्षा,सं०१६०७ नारदपूर्य पंडित पदं. सं०१६०८वर्षे माघशुदि ५ दिने नारदपूर्या वाचकपदं, सं० १६१० वर्षे सीरोहीनगरे सूरिपदं । तथा यैरनेकनगरेषु सहस्रशोबिंबानि प्रतिष्ठितानि तथा अहम्मदावादनगरे ऋषिर्मेघजीनामा स्वयं मतं परित्यज्य पंचविशतिमुनिभिः सह श्रीगुरुचरणसेवापरो जातः । तथा श्रीगुरवः पातसाहि अक-5 ब्बरेण स्वनामांकितं फुरमानं प्रेष्य गंधारबंदिरात् श्रीआगरानगरासन्न फतेपुरनगरे समाहूताः सन्तः विहारं कुर्वतः क्रमेण सम्बत् १६३६ वर्षे ज्येष्ठवदि१३त्रयोदशीदिने तत्र सम्प्राप्ता श्रीसाहिना समं मिलिताः साधिकप्रहरं यावत्तत्र धर्मगोष्ठी कृत्वा श्रीसाहिना अनुजाता सन्तो महताडम्बरेणोपाश्रये समायाताः। तदानीं सकलापि lo लोकः श्रीहीरसूरिसेवापरो जातः । तस्मिन् वर्षे श्रीआगरानगरे चातुर्मासकं कृतं तदनुश्रीगुरुभिः श्रीशोरीपुरयात्रां च कृत्वा अागरानगरे सा० मानसिंघकल्याणमल्लकारितश्रीचिंतामणिपार्श्वनाथबिबं प्रतिष्टितं पुनरपि फत्तेपुरनगरे समागत्य श्रीसूरयः पातसाहिना साकं मिलिताः तदवसरे धर्मवार्तया रंजितः पातसाहिः द्वादशदिवसामारिसत्कं फुरमानं स्वनामां- 15 कितं श्रीगुरूणां दत्तवान् , तदा च श्रीजिनधर्मोन्नतिर्महती जाता । तदवसरे श्रीमेडतीयसदारंगेण याचकेभ्यो मूर्तिमद्गजदानद्विपंचाशदश्वदानादिना दील्लिमंडले श्राद्धानां प्रतिगृह] सेरद्वयप्रमाणखंडलं भनिकाकरणादि. ना च श्रीगुरूणां प्रतिष्ठा महती संजाता। तथा प्रथमं चातुर्मासीकं श्रीआगरानगरे द्वितीयं फत्तेपुरे तृतीयं अभिरामावादे. चतुर्थपुनरपि आगरानगरे 20 एवं चतुर्मासकचतुष्टयं तत्र देशे कृत्वा, गुर्जरदेशसंघाग्रहात् मेडतादिनगरे विहारं कुर्वन्तो नागोरनगरे च चतुर्मासकं कृत्वा क्रमेण सूरयः श्रीसीरोहीनगरे समागताः तत्रापि प्रतिष्ठाद्वयं श्रीपदाचलतीर्थयात्रां च कृत्वा राजश्रीसूलतानजीकस्याग्रहवशात् श्रीसीरोहीनगरे चातुर्मासीकं स्थिताः । तदनु विहारं कुर्वतः श्रीपाटणनगरे चातुर्मासकं चक्रुः पादपनगर चातुमासक चक्रुः 25 श्रीहीरसूरयः क्रमेण भव्यजीवान् प्रतिबोध्य च श्रीदीवबंदीरास मउनानगरे संवत् १६५२ वर्षे भाद्रवाशुदि ११ दिने स्वर्ग प्राप्ताः ५८| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002624
Book TitlePattavali Samucchaya Part 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy