________________
. पट्टावली समुशयः तथा जेसलमेर्वादिमरुभूमौ जलदोर्लभ्यात् दुष्करोयमिति श्रीसोमप्रभसूरिभिर्विहारः पूर्व सम्प्रतिषिद्ध प्रासित सोपि विहारः कुमतव्याप्तिभिया जनानुकंपया च भुयो लाभहेतवे पुनरप्यनुज्ञातः श्रीसूरिणा तत्रापि प्रथम वैराग्यनिधि निस्पृहावधिर्जावजीवंजघन्यतोपि षष्टतपोऽभिगृही पारणकेप्याचाम्लादितपोविधायी उपाध्याय श्रीविद्यासागरगणिर्विहृतवान् तेन च । जेसलमेर्वादौ खरतरान् मेवातदेशे च वीजामतिप्रभृतीन् मरुदेशादौ लुम्पकादीन् प्रतिबोध्य वीरप्रामे पासचंद्रव्युग्राहितं जनं च प्रतिबोध्य भूयान जनो जैनधर्म प्रापितः,एवं मालवकादिबहुदेशेषु विहृत्य वैराग्यवासिनो जनाः कृताः । तथाक्रियोद्धारकरणानन्तरं च श्रीआणंदविमलसूरयः चतुर्दशवर्षाणि जघन्यतोपि नियततपाविशेषं विहाय षष्ठतपो अभिग्रहेण lo चतुर्थषष्ठाभ्यां विंशतिस्थानकाराधनाद्यनेकविक्रष्टतपःकारिणश्च सं० १५६६ वर्षे चैत्रशुदिसप्तम्यामाजन्मातिचाराद्याआलोच्य नवभिरुपवासैरहमदाबादनगरोपकंठे निजां पूरे (?) स्वर्ग प्राप्तः ।।५६।।
(५७) श्रीआणंदविमलसूरिपट्टे सप्तपंचाशत्तमः " श्रीविजयदानसूरिः" येन स्थंभतीर्थमहानगरेषु महामहोत्सवपुरस्सरमनेकजिनबिंबशतानि 15 प्रतिष्ठितानि यदुपदेशेन पातसाहिमुहिम्मुदमान्येन मंत्रिगलराजेन षाएमासिका शत्रुजयमुक्तिं कारयित्वासकलनगरसङ्घसहितेन श्रोशत्रुजययात्रा कृता, तथा यदुपदेशपरायणैः गंधारीयसारामजी-अहम्मदाबादसत्कसं० कुंअरजीप्रमुखैः श्राद्धैः श्रीशत्रुञ्जयोजयन्तगिर्योः जीर्णोद्धारो देवकुलिकाचतुर्मुखादयः कारिताः । तथा यः श्रीसूरिःजावजीवं घृतातिरिक्तविकृतिपंचा- 20 रिहारी अनेकवारैकादशांगपुस्तकशुद्धिकारः सर्वजनप्रसिद्धोभृत् तस्य च सं० १५५३ वर्षे जांभलाख्यनगरे सा० भामोसा-मातृभ्रमादे गृहे जन्म, त्रयो भ्रातरः, भागिनेयो विजयः x x लक्ष्मणकुंअर, सं० १५६२ वर्षे दीक्षा सं० १५८७ वर्षे सूरिपदं, संवत् १६२२ वर्षे वडालीनगरेऽनशनेन स्वर्गः ५७
(५८) श्रीविजयदानसूरिपट्ट अष्टपंचाशत्तमः"श्रीहीरविजयसूरिः"सं० 25 १५८३ वर्षे प्राह्लादनपुरवास्तव्यउकोशज्ञातीयसा०कुंअरजीभार्यानाथीगृहे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org