________________
श्री पट्टावलीसारोद्धारः
१५५
7
तत्समये मंत्रिवस्तुपालेन श्रीदेवेन्द्रसूरीणां बहुमानं कृतं क्रमेण विहारं कुर्वतश्च श्रीसूरयः प्रल्हादपुरनगरे समायाताः, तत्र च संवत् १३२३ वर्षे विद्यानंदसूरिं स्वपदे संस्थाप्य पुनरपि मालवदेशे विहृतवंतः तत्र मालवके एव सं० १३२७ वर्षे श्रीदेवेन्द्रसूरयो दिवं गताः ।
तदा दैवयोगाद्विद्यापुरे श्रीविद्यानंदसूरयोऽपि त्रयोदशदिनांतरिता 6 स्वर्गभाजः ॥ तथा श्रीगुरूणां स्वर्गगमनं श्रुत्वा सं०भीमेन मतांतरे सोनीसंग्रामेण द्वादशवर्षाणि धान्यं त्यक्तं ॥४५॥
(४६) श्रीदेवेन्द्रसूरिपट्टे षट्चत्वारिंशत्तमः श्रीधर्मघोषसूरिः ॥ येन मंडपाचले सा० पेथडदेवः सौख्यभाग् कृतः सोऽपिमंडपेशप्राधान्यं प्राप्तस्तेन ८४ श्रीजिनप्रसादाः सप्तज्ञानकोशाश्च कारिताः षट्पंचाशत् स्वर्ण- 10 घटीव्ययेनेंद्रमाला श्रीशत्रुंजयोपरि परिहिता, तथा सां०पेथडदेवः द्वात्रिंश द्वर्षीयोपि ब्रह्मचार्यभूत् तस्य पुत्रो झांझणदेनामा एक एवासित् येन च श्रीशत्रुंजयोज्जयंतगिर्योः शिखरे द्वादशयोजनप्रमाणस्वर्णरूप्यमयः एक एव ध्वजः समारोपितः तथा येन मंडपाचले जिर्णटंकानां षट्त्रिंसत्सहस्रैः श्रीगुरूणां प्रवेशोत्सवः कृतः ॥
तथा एकदा श्रीगुरुभिः काभिश्चित् दुष्टस्त्रिभिः कार्मणोपेता वटका साधूनां विहरिताः भूपीठे त्याजिता प्रभाते ते पाषाणमया. अभवन् तदा वासाभिमंत्र्यार्पित पट्ट्कासनस्थादुष्टस्त्रियः स्थम्भिताः । तरिंच कृपया मुक्ताः, एवं महा प्रभावकाः श्रीगुरवः संवत् १३५७ वर्षे दिवं गताः ॥४६॥
(४७) श्रीधर्मघोषसूरिपट्टे सप्तचत्वारिंशत्तमः श्रीसोमप्रभसूरिः ॥ 20 तस्य च संवत् १३१० वर्षे जन्म संवत् १३२१वर्षे व्रतं संवत् १३३२ वर्षे सूरिपदं । यः कंठगतैकादशांगसूत्रार्थः समासीत्, येन जलबहुलकुकुरणदेशें अप्कायविराधनाभयात् मरुदेशे शुद्धजलदौर्लभ्याच्च साधूनां प्रतिषिद्धः क्रमात् संवत् १३७३ वर्षे ते श्रीसूरयो दिवं गताः ।
15
(४८) श्रीसोमप्रभसूरिपट्टे अष्टचत्वारिंशत्तमः श्रीसोमतिलकसूरि : 25 तस्य च संवत् १३५५ वर्षे जन्म संवत् १३६६ वर्षे दीक्षा सं० - १३७३ वर्षे सूरिपदं संवत् १४२४ वर्षे एकोनसप्ततिवर्षायुः परिपाल्य वर्गः ॥४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org