SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १४ पट्टाबली-समुचयः (४१) श्रीमुनिचंद्रसूरिपट्टे एकचत्वारिंशत्तमः : "श्रीअजितदेवसूरिः ॥४१॥ तत्समये सं०१२०४वर्षे "खरतरमतोत्पत्तिः” संवत् १२१३ वर्षे "अांचलकमतोत्पतिः” संवत् १२२६ वर्षे “सार्द्धपौर्णमीयकमतोत्पत्तिः" संवत् १२५० वर्षे “आगमियकमतोत्पत्तिः” वीरात् द्विनवत्यधिकषोडश 5 शत१६६२वर्षे बाहडदेमंत्रिकृतोद्धारः ॥४१॥ (४२) श्रीअजितदेवसूरिपट्टे द्विचत्वारिंशत्तमः "श्रीविजयसिंहसूरिः” (४३) श्रीविजयसिंहसूरिपट्टे त्रिचत्वारिंशत्तमौ "श्रीसोमप्रभसूरिः” "श्रीमणिरत्नसूरिः” ॥४३॥ (४४) श्रीमणिरत्नसूरिपट्ट चतुश्चत्वारिंशत्तमः "श्रीजगच्चंद्रसूरिः,10 स च क्रियापरायणः सन् “हीरलाजगच्चंद्र सूरिरिति ख्यातिभाग जातः तथा यावज्जीवमाचाम्लतपोभिग्रही द्वादशवर्षे तपाबिरुदमाप्तवान् , ततो लोके षष्ठं नाम संवत्१२८५वर्षे "तपा" इति प्रसिद्धं जातं ।। तथा च निग्रंथ १ कोटिक २ चंद्र ३ वनवासि ४ वडगच्छ ५ तपा ६ इति परणां नाम्नां प्रवृत्तिहेतवः प्राचार्याः क्रमेण श्रीसुधर्मखामि १ श्रीसु- 15 स्थितसूरि २ चंद्रसूरि ३ श्रीसामंतभद्रसूरि ४ सर्वदेवसूरि ५ श्रीजगच्चंद्रसूरि ६ नामानि षट् आसन् ॥४४॥ ... (४५) श्रीजगच्चंद्रसूरिपट्टे पंचचत्वारिंशत्तमः "श्रीदेवेंद्रसूरिः” । स च चिरकालं मालवके एव विहृतवान् ।। क्रमेण श्रीदेवेंद्रसूरयः श्रीस्थंभतीर्थे समायाताः तत्र च श्री विजयचंद्रसूरयः एकस्यां पौषधशालायां लोका- 20 प्रहात् द्वादश वर्षाणि पूर्व स्थितवंतः प्रव्रज्यादिकृत्यमपि गुर्वाज्ञामंतरेणैव कृतवंतश्च, तथामालवदेशादागतानां श्रीदेवेन्द्रसूरीणां वंदनार्थमपि नायाताः, ततो लोकैश्च वृद्धशालायां स्थितत्वात् श्रीविजयचंद्रसूरिसमुदायस्य "वृद्धशालिक" इति प्रोक्तं, तथा लघुशालायां स्थितत्वात् श्रीदेवेन्द्रसूरि निश्रितसमुदायस्य "लघुशालिक" इति ख्यातिर्जाता। 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002624
Book TitlePattavali Samucchaya Part 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy