________________
१४२
पट्टावली - समुचयः
सूरयो बप्पभट्टाख्या, अभयदेवसूरयः ॥
हेमाचार्याश्व मलय – गिर्याद्याश्चाऽभवन्परे ॥ १२६ ॥
-
विजयन्तेऽधुनाऽप्येवं, मुनयो नयकोविदाः ॥ अत्युग्रतपसश्चारु – चारित्रमहिमाऽद्भुताः ॥ १३० ॥ एवं मध्यस्थया दृष्ट्या, पर्यालोच्य विवेकिभिः ॥ न कार्यः शुद्धसाधूनां संशयः पंचमेऽरके ॥१३१॥ दुष्ष मारकपर्यन्ता ---वधि संघश्चतुर्विधः ॥ भविष्यत्यव्यवच्छिन्न इत्यादिष्टं जिनैः श्रुते ॥ १३२ ॥ तथोक्तं भगवत्यां - जम्बूद्दीवेणं दीवे भारेह वासे इमीसे उसप्पिणीए देवाप्पियाणं केवइयं कालं तित्थे श्रणुसज्जिस्सति ? . गो० ? जंबु० भारहे इमीसे उस० मम एकवीसवाससहस्साई तित्थे अणुसज्जिस्सति । इति, भगवती श० २० उ० ८ (सू०६७८) । दीवाली कल्पे तूक्तं
वासाण वीससहस्सा नवसय तिम्मास पंचदिए पहरा ॥ इका घड़िया दोपल अक्खरडयाल जिणधम्मो ॥ १३३ ॥ ( अथ दुष्प्रसहसूरेरधिकारः ) - x पर्यन्ते त्वरकस्यास्य, सूरिर्दुष्प्रसहाभिधः ॥ रनिद्वयोच्छ्रितो विंशत्यब्दजीवी भविष्यति ॥१३४॥ स्वर्गाच्च्युत्वा समुत्पन्नो, गृहे द्वादशवत्सरीं ॥
,
स्थित्वा सामान्य साधुत्वे, चत्वार्यब्दान्यसौ शुचिः ॥ १३५॥ चत्वार्यब्दानि सूरित्वे स्थित्वाष्टाऽब्दानि च व्रते ॥ स्वर्गमेष्यति सौधर्म - मंते कृत्वाऽष्टमं कृती ॥१३६॥ दशवेकालिकं जीत-कल्पमावश्यकं च सः ॥ अनुयोगद्वारं नंदि, नतेंद्रो धास्यति श्रुतम् ॥१३७॥
साध्वी तदा च फल्गुश्रीः, श्रावको नागिलाभिधः ॥ सत्यश्रीः श्राविका चेति, ज्ञेयः संघश्चतुर्विधः ॥ १३८॥
Jain Education International
For Private & Personal Use Only
5
10
. 15
20
25
www.jainelibrary.org