________________
श्रीयुगप्रधानाः
सूरिर्विनयमित्राख्यः, शीलमित्रश्च रेवतिः ॥ स्वप्नमित्रो हरिमित्रो, द्वितीयोदयसूरयः ॥१२१॥
स्युत्रयोविंशतेरेव - मुदयानां युगोत्तमाः ॥ चतुर्युक्ते सहस्रे द्व े, मीलिताः सर्वसंख्यया ॥ १२२ ॥
एकावतारा सर्वेऽमी, सूरयो जगदुत्तमाः ॥ श्रीसुधर्मा च जंबूच, ख्यातौ तद्भवसिद्धकौ ॥ १२३॥ अनेकातिशयोपेता, महासत्वा भवत्यमी ॥ घ्नन्ति सार्धद्वियोजन्यां, दुर्भिक्षादीनुपद्रवान् ||१२४||
एकादशसहस्राश्च लक्षाश्च षोड़शाऽधिकाः ॥ युगप्रधानतुल्याः स्युः, सूरयः पंचमारके ॥ १२५॥
तथोक्तं, दुष्पमारकसंघस्तोत्रे (गाथा १८ ) - जुगपवरसरिससुरी दूरीकयभवियमोहतमपसरे ॥ वन्दामि सोलसुत्तर इगट्स लक्खे सहस्से य ॥१॥ संतु श्रीवर्द्धमानस्येत्यादि || दीवालीकल्पे तु (१११६००० ) - जुग पहाण समाणा, एगारसलक्ख सोलससहस्सा ॥ सूरि हुँतिए, पंचमे जाव दुप्पसहे ॥२॥ + कोटीनां पंचपंचाशल्लक्षास्तावन्त एव च ॥ सहस्राश्च शताः पंच, सर्वे स्वाचारसूरयः ॥ १२६॥
त्रयस्त्रिंशच लक्षाणि, सहस्राणां चतुष्टयी ॥ ३३०४४६१ चतुःशत्येकनवतिः, सूरयो मध्यमा गुणैः ॥ १२७ ॥
,
अस्मिन्नेवारकेऽभूवन् पूर्वाचार्या महाशयाः ॥ श्रीजगञ्चन्द्रसूर्याद्या —— स्तपागच्छाऽन्वयक्रमे ।। १२८||
+ श्री धर्मघोषसूरिकृतकालसप्ततिकायां ३३ गाथायामेतत्संख्याया एव स्वीकारः ॥
Jain Education International
१४१
For Private & Personal Use Only
5
10
15
20
www.jainelibrary.org