SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ [८] श्रीमन्महाकािरपट्टपरम्परा ( कता-श्रीदेवत्रिमलगाणः ) अथो पुरासन्भरते वृषाङ्कमुखाश्चतुर्विशतितीर्थनाथाः । बाह्यान्यबाह्यानि तमांसि हन्तु कृतद्विरुपा इव भानुमन्तः ॥१॥ इक्ष्वाकुवंशाम्बुधिशीतभासां द्वाविंशतिस्तीर्थकृतां बभूव । यया तमःपङ्कमपास्य पन्था प्राकाशि सिद्धेः शरदेव विश्वे ॥२॥ बभूवतुह्रौं भुवनप्रदीपौ जिनौ यदूनां पुनरन्ववाये । अरिष्टनेमिर्नुनिसुत्रतश्च स्फूर्जद्भुजाविन्द्रियवेश्मनीव । ३।। सिद्धार्थभूकान्तसुतो जिनानामपश्चिमोऽजायत पश्चिमोऽपि । शशी व्यभात्पकिलपङ्कजास्यकादम्बवद्यस्य यशःसुधाब्धी ॥४॥ वाल्यपि हेमाद्रिरकम्पि येन प्रभञ्जनेनेव निकेतकेतुः। श्रीद्वादशाङ्गी च यतः प्रवृत्ता गुरोगिरीणामिव जहनुकन्या ॥५॥ एकादशासनगणधारिधुर्याः श्रीइन्द्रभूतिप्रमुखा अमुष्य । आर्योपयामे पुनराप्तमूर्ति रुद्राः स्मरं हन्तुमिवेहमानाः ॥६॥ बभूव मुख्यो वसुभूतिसूनुस्तेषां गणीनामिह गौतमाहः । यो वक्रमावं न बभार पृथ्वीसुतोऽपि नो विष्णुपदावलम्बी ॥७॥ यत्पाणिपद्मः सपुनर्भवोऽपि दत्ते नतानामपुनर्भवं यत् । शिष्यीकृता येन भवं विहाय शिवं श्रयन्ते च तदत्र चित्रम् ॥८॥ सूर्यस्य रश्मीनवलम्ब्य वावलम्बरश्मीनिव यः शयाभ्याम् । नन्तु जिनानार्षभिक्लृप्तमूर्तीनष्टापदोधिरमारुरोह ।। ६ ॥ 10 15 - - -तपः कृशाङ्गास्तं शैलमारोळून वयं क्षमाः । चढिष्यति कथं प्रौढदेहोऽयं गजराजवत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002624
Book TitlePattavali Samucchaya Part 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy