________________
तपागच्छ - पट्टावली
६३
स्वकीयदक्षिणीय महाबाद्यवादनादिभिः श्री चन्द्रपालादिसमृद्ध श्राद्धैः सोत्सवं प्रतिपदं सुवर्णमुद्राणां न्युंछनकेषु क्रियमाणेषु भट्टचारणादिमार्गणानां मार्ग यादृच्छिक दानेन सहर्षमुपाश्रये पादावधारणं चक्रुः । किं बहुना, श्रीजिनप्रवचनप्रासादे कलशारोपणमिदमद्भुतं प्रासीसरत् । ततो गुर्जरत्रां पवित्री - कृत्य सुराष्ट्रदेशे द्वीपबन्दिरे फरंगीपातिसाहिप्रदत्तव्याख्यानानुज्ञापूर्वं चतुर्मासकद्वयं हल्लारदेशं तद्देशस्वामिभक्त्यनुरोधेन कतिचिद्दिनावस्थानं च कृत्वा स्तम्भतीर्थे चतुर्मासकं तस्थुः ।
अत्रान्तरे उपाध्यायपाक्षिकैः सागरपाक्षिकैश्च क्रियमाणं जनव्युद्गाहमवेदय श्रीसाबल्यां श्रीगुरुवो ध्यानं विदधुः । मासत्रयं ध्यानेनाधिकप्रवृद्धधामानः परेषां द्रष्टुमपि दुष्प्रेक्षास्तत्रैव प्रतिष्ठाद्वयं चतुर्मासीं च कृत्वा 'इला' 10 दुर्गे प्रतिष्ठात्रयं संघेन समं तद्देशतीर्थयात्रां कृत्वा क्रमेण 'आरासणे' मूलनायकप्रतिष्ठां चक्रुः ।
कालान्तरे च 'इला' दुर्गे ऽभ्येत्य सा० 'सहजू' - कृतमहोत्सवेन सं० १६८१ वर्षे वैशाखसितषष्ठयां श्रीविजयसिंहसूरीन् यौवराज्येऽस्थापयत् । तदा तद्देशभूपेन 'रणमल्लचोकी' नामकं गिरिशृङ्गं गुरूपदेशान्नव्यचैत्य- 15 स्थापनाय संघस्य प्रसादीकृतम् ।
ततः सीरोह्यां चतुर्मासककरणादनु 'जाबालक पुरे' समागत्य श्रीगुरुराजाः 'सादड़ी' – प्रामे गीतार्थाननुज्ञाप्य लुम्पाकपाक्षिकान् श्रीउदयपुरे राणाश्रीकर्णसिंहसमक्षं सभायां वादपूर्वं निरुत्तरान् कारयामासुः ।
ततः श्रीतपागच्छप्रौढिर्महता बभूव । तत्र च श्रीयोधपुराधीश्वरश्री- 20 गजसिंह राजस्य मुख्यमान्यश्रीजयमल्लनाम्ना 'जालोर' दुर्गे प्रतिष्ठात्रयमन्तरान्तरा चतुर्मासकयं श्रीगुरूणामत्याग्रहेण कारयित्वा स्वर्णगिरी चैत्यं स्वकारितं प्रतिष्ठापयामासे ।
सं० १६८४ वर्षे सहस्रशो रूप्यकव्ययेन श्रीविजयसिंहसूरीणां गणानुज्ञानन्दिमहोत्सवः कारितः । तदनु 'मेडतानगरे' प्रतिष्ठाद्वयं विधाय 'वन्ध्य-25 नगरे' चतुर्मासीस्थिताम् श्रीगुरून् श्रुत्वा तन्माहात्म्यभवणेन तुष्टो रायणाश्री
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org