________________
पडावली-समुषवः द्विधापि विमानश्रियं दधाने सुपर्वशोभाभासुरे प्रचण्डमण्डपाडम्बरेण विचिपराजवादित्रनिर्घोषैर्नभसि गर्जति सति सर्वसंघभोजनपरिधापनादिभिः श्रीमल्लनामश्रेष्ठिना स्वभ्रातृसोमान्वितेन दशसहस्त्ररूप्यकव्ययेन महती. प्रभावना चक्रे सुमुहूर्ते श्रीगुरुभिः सूरिपदं प्रदाय 'श्रीविजयदेवसूरिः' इति नाम संदधे । तदा पुनस्तदुत्सवनिमित्तमेवाष्टसहस्ररूप्यकव्ययेन ठक्करकी- 5 काख्येन प्रतिष्ठा कारिता पुनश्चैषां सं० १६५८ वर्षे परीक्षकसहस्त्रवीरेण पञ्चसहस्रमहमून्दिकाव्ययेन कृतोत्सवपत्तने गणानुज्ञानन्दिमहो महान् जज्ञे । तथा श्रीविजयदेवसूरिभिः प्रतिष्ठाद्वयं राजनगरे, प्रतिष्ठाचतुष्टयं पत्तने प्रतिष्ठात्रयं स्तम्भतीर्थे सातिशयमहोत्सवपूर्व चक्रे ।
इलादुर्गे च श्रीकल्याणमल्लराजप्रबोधनात्तत्सभास्थितान्भट्टान पं० 10 श्रीपद्मसागरगणीनामाझादानेन जापयित्वा राजाग्रहात्तत्र चतुर्मासी चक्रे । तदा च तत्रत्यगिरिशिरसि प्रभूपदेशात् श्रीऋषभदेवबिम्बं नवीनचैत्योद्धारपूर्व भाद्धैर्नटीपद्रे महदाडम्बरेण प्रतिष्ठायां श्रीगुरुभ्य एव प्रतिष्ठाप्य स्थापयामास ।
अत्रान्तरे सं० १६७३ वर्षे कतिचिदुपाध्यायैः संभूय कतिचिल्लोकान् स्वायत्तीकृत्य आग्रहबुध्या स्वकीयमतं प्रादुष्कृतम्तन्मतवासिते च स्वकीये 15 भार्ये = सा० देवचन्द्रेण स्तम्भतीर्थवास्तव्येन मृत्वा देवीभूतेन तन्मतश्राद्धजेमनवारायां पाषाणवृष्ट्या संतयं “अहं भवत्यो" देवचन्द्रः सप्तदशभिर्देवैः श्रीविजयदेवसूरीणां सानिध्यं कुर्वाणोऽस्मि तद्भवतोभ्यामप्ययमेव-पारंपर्यागतः श्रीगुरुः सेव्यः' इत्युक्त्वा श्रीगुरुभक्ते कृते, इत्यद्भुतदेवसांनिध्यादनेकशो लोकाः कुमतानि परितत्यजुः। 20
तथा घोघाख्यबन्दिरवास्तव्य सा० सोमजीनामा स्वकुटुम्बं पूर्व धर्मादष्टं देवीभूय प्रागुक्तवत्प्रबोध्य श्रीगुरोर्भकं चक्रे । तदतिशयश्रवणान्महा. राजश्रीजहांगीरपातिसाहिः श्रीसूरीन् सबहुमानमाकार्य श्रीमण्डपाचले श्रीगुरुमिः समं धर्मप्रश्नादिवार्ता विदधे। तदा सुधासमानदेशनाश्रवणेन तपस्वेजोमयमूर्तिदर्शनेन भृशं तुष्टः श्रीसाहिराजोऽयं गुरुमहातपा इति बिरुदं 25 सिवान् । सदन लग्धयशोवादा श्रीसूरिपादाः श्रीसाहिना स्वयंमनुशापित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org