________________
सूरिविरचितः ] श्रीमन्त्राधिराज कल्पः ।
जय जयेति वदद्वदनाम्बरो जिनपदावभिनम्य सिताम्बरः । रजतहेममृदां वरकर्णिकामयमथो कुरु मङ्गलदीपकम् ॥ ७ ॥ धरणतद्दयिताविजयाजयाकमठपार्श्वनवग्रहसंयुतम् ।
२६७
सुरपवह्निकृतान्तपलादिनां वरुणवायुकुबेरपिनाकिनाम् ॥ ८ ॥ अजनरायणयोरपि नामभिः प्रणवपूर्वनमोऽन्तगतैरपि । समभिपूजयति स्फुटभक्तियुक् कुसुमधूपफलप्रमुखैः क्रमात् ॥ ९ ॥ गुदग - नाभिग- हृद्रत - कण्ठगा-SSस्यग- ललाटगवक्त्रचयादिवित् श्वसनपञ्चकचारविचारणाकृदवबुद्धसमस्तसुतवकः ॥ १० ॥ रहसि शीतमयूषमुपागते मरुति चारि कुमण्डलगे सति । कृतसमत्वरसो घनपावनः सुरपदिग्वदनो मदनोज्झितः ॥ ११ ॥ निजकरा वदित (?) सुधराभवावनिरुहप्रभवं सुदलावलि । अशिथिलं विशदप्रभयान्वितं परिमलप्रसरं तु सुदन्तकम् ॥ १२ ॥ परिहृताखिललोककथाप्रथः कुसुममेकमथैकमुदारधीः । अचल निश्चलचित्तशरीरकं पवनयुक् प्रविधाय हृदप्रगम् ॥१३॥ स्थिर तरीकृतनेत्र कनीनिको हृतसमस्तखवारमनोहरः । जिनपतिं परिवारयुतं स्मरन्न वचनो मरुता सह साहसी ॥ १४ ॥ जिन पतिक्रमयुग्मतले क्षिपन् रविसहस्रसुमानि पुमानिति । त्रितयमन्त्रजपप्रवराणि वै जपविधिर्गदितः सकलस्त्वसौ ॥ १५ ॥
कुलकम् ।
जापान्ते नित्यपूजान्ते स्तवान्ते चैत्यवन्दनाम् । विदध्याद बुद्धिमान् शुद्धां वामेयस्याग्रतो व्रती ॥ १६ ॥