SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ર૬ श्रीजैनस्तोत्रसन्दोहे- [ श्रीसागरचन्द्र वप्रबहिस्तात् परिखा स्मर्तव्या खादिराङ्गारभृता । साधक एकाग्रमना ध्यानविधानं करोतीत्थम् ॥ ३५ ॥ इति विशेषध्यानम् । दक्षिणेतरभुजान्तरमध्यान्निः सरन्नथ सरीसर्पराजः । उज्जभेण सकलानपि वर्णानाश्लिषन्निजजनानिव बन्धुः ॥ ३६ ॥ स्वर्णसोदरसहस्रफणाभिशतपत्रमंडलं तु दधान: ( योगिभिर्जिनवरस्मृतिकाले सन्ततं मनसि संस्मरणीयः ||३७|| इति ध्यानम् । युग्मम् । अथ भणामि फणाङ्कजिनार्चनं न जपहोमविधौ विवद्यतः । फलति मन्त्र विहमतुं रात् (!) जलदवारिभरादिव पादपः ॥ १ ॥ जय जिनेति वचः प्रथमं भणन् घुसणचन्दनतः कृतकङ्कणः । अगुरुधूपसुधूपित शुद्धरुक् सिचयसञ्चितदेह रुचिर्भृशम् ॥ २ ॥ त्रिंशांसकुसुमाञ्जलिपूर्वकं विलसीदलमम्बरपूरितैः । कनकभृत्कलधौतमयैर्विभुं स्नपयति प्रमदः कलसैरसौ ॥ ३ ॥ मृगमदागुरुचन्दनकुङ्कुमैर्मलयजैर्घनसारविमिश्रितैः । जिनवपुः परिलिप्य प्रपूजयेत् बकुलचम्पकमुख्यसुमैः शुभैः ॥ ४ ॥ घृत विपक्त्रिममोदकसंयुतं सघृतमामिषमस्य च ढोकयेत् । विमलतन्दुलमङ्गलसत्फलावलिदलप्रददः कृतदीपकः ॥ ५ ॥ प्रणवपूर्वपदैस्तु नमोऽन्तगैरपि तुरीयविभक्तिगनामभिः | सकलमण्डलमर्चयति स्फुटं फलदलैः कुसुमैरसमैस्ततः ॥ ६ ॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy