________________
श्रीजनस्तोत्रसन्दोह [श्रीलोशन्दर
wwwwwwwwwwwwwwwwwwwwwww न ते प्रपीडयाः पुरुषा रुषाऽरुषा न तांश्च दृष्टाः समया मयाऽऽपयोः । नमन्ति तो मुद्रसवास ! वासवा येषां मतिस्ते रमते मते मते ॥ ३ ॥ वन्हेविनम्रधुसदा सदा सदायताक्ष ! नागं भवता बताऽवता । आदींकृतान्तहृदयो दयोदयो निदर्शितः सद्विधिनाऽऽधिनाधिना ॥४॥
अवचूरिः । ___षा-रोषः सैव अरुः-पीडादिहेतुत्वाद् व्रणस्तेन तान् समयावेषां समीपे इत्यर्थः । मयोपलक्षणत्वादन्यैरप्यामया बाह्यान्तरा न दृष्टाः। गोणात् समया इत्यनेन तानित्यत्र द्वितीया । मुदेव रसस्तस्य वासः 'आधारे घञ्' स्थानमित्यर्थः । अनन्तानन्तमयत्वात् तस्य-सम्बोधनं मुद्रसवास ! वासवानां विशेषणं वा 'मतन्तु सम्मतेऽचिंते' ( हेम्यने. श्लो, २।१८३) इत्यनेकार्थवचनात् । ते-तव मते सम्मते-स्याद्वादरूपे इत्यर्थः । कोशे मंते ! पूज्यत्वात् अर्चिते इन्द्रादिभिरित्यध्याहार्यम् । मतशब्दो विशेषणरूपोऽपि केवलः प्रयुक्तो दृश्यते 'यद्राधावेधिनो लक्ष्ये तन्मनो मेऽस्तु ते मते।'
) इत्यादिष्विव ॥ ३ ॥ हे सदायताक्ष! सती-रुचिरे आयते अक्षिणी-नेत्रे यस्य तस्थ सम्बोधनम् । विनम्र शुसदा सदा । बत इत्याश्चर्ये । वन्हे गं भवता सता भार्टीकृतं । अन्तः-हृदयं आर्टीकृतं चितं येन । बाह्यहृदयस्याकरणासम्भवात् । एवंविधो 'दयोदय' दयाया उदयो निदर्शितः-नितरा वर्णितः, परैरपि दुःखे-पतितो विषधरोऽपि पालनीयः एतन्नागवत् इत्येवं स दृशान्तीकृतो का । केन ? सविधिना' सन्-प्रधानो विधिः कमठतापसहितशिक्षावेप्रदानादिरूपस्तेन । कीदृशेन ? आधि-चित्तसन्तापं प्रस्तावात् कृतिनां नाधिना 'नाधृङ् नाथडवत् ' इति धातोरुपशमाथेऽपि वर्तनात् धमयतीति शीले आधिनाधी, तेन ॥ ४ ॥