________________
श्रीसोमसुन्दर
. श्रीजैनस्तोत्रसन्दोहे
[५६ ] श्रीसोमसुन्दरमरिमणीत
यमकमयं श्रीपार्श्वजिनस्तवनम्।
विभाति यद्भास्तरुणारुणारुणा किमङ्गमेघे रुचिरा चिराचिरा । तवात्र ते पार्श्व ! महेमहे महेश्वरायितुं निर्विपदे पदे पदे ॥१॥
अवचूरिः । ययोः पदयो :-कान्तिः तरुणोऽरुणः-सूर्यः तद्वद् अरुणा-शोणा। ननु मत्र तरुणशब्देन लक्षणया युवा गृह्यते । युवा च सूर्यो न शोणः स्यात्, तरुणस्यैव तस्य शोणत्वात् । मैवम् । तरुणशब्दस्यात्र नूतनाथ. प्रतिपादकत्वम् । ' तरुणः कुब्जपुष्पे स्यादेरण्डे यूनि नूतने ।' इत्यनेकार्थवचनात् ( हेम्यने० श्लो. १९५ ) तथा च न विरोधः । अत्रैवोत्प्रेक्षा ' किमझमेघे' प्रस्तावाद् श्रीपार्श्वस्य शरीररूपे जलदे रुचिरा-मनोहरा चिराचिरा । चिरशब्दस्यानव्ययस्य अकारान्तस्य बहुकालावस्थायिन्यर्थे वर्तनात् स्थिररूपा अचिरा-विद्युत् , कोऽर्थः । प्रभोदेहे नीलश्यामयोरेकत्याजदोपमे । इयं पदयोः द्युतिः स्थिरा विद्युदिव ।
'निरङ्को राकेन्दुः किमु किमुत सौम्यो द्युतिपतिः
किमब्दः शुद्धात्मा किमु सुरतरुजङ्गमतनुः । ' ( इत्यादिष्विवान सविशेषणमेवोपमान व्यतिरेकालङ्कारसभावात् । हे पार्थ ! हे महेश्वर ! परमस्वामिन् ! वयं निर्विपदे-विपद्रहिते मोक्षरूपे पदे-स्थाने मयितुं-गन्तुं तव पदे-चरणे महेमहे-पूजयामः । 'अहं मह पूजायाम् । णिजि शवि चेदं रूपम् । 'वाचा निशा गिरा' इत्यादिवद् व्यजनान्तसादण्यावादिनो भागुरेवैयाकरणस्य मतेन श्रीहेमसूरिसम्मतेन विपच्छब्दा