SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ - सरिप्रणीतम् ] श्रीपार्श्वजिनस्तोत्रम् । [५५ श्रीजिनप्रभसूरिभणीतं श्रीपार्श्वजिनस्तोत्रम् । श्रीपाच परमात्मानं त्रैलोक्याभयसाक्षिणम् । विज्ञानादर्शसङ्क्रान्तलोकालोकमुपास्महे ॥१॥ जिन ! त्वन्नाममन्त्रं ये ध्यायन्येकाग्रचेतसः । . दुराराधामपि श्रेयःश्रियं संवनयन्ति ते ॥२॥ नमस्ते जगतां पित्रे विधाने सर्वसम्पदाम् । सवित्रे भव्यपमानामीशित्रे भुवनत्रयम् ॥ ३॥ मणताखण्डलोत्तंसत्रंसिमन्दारदामभिः । . त्रिसन्ध्यं रचिताभ्यर्च पादाम्भोज तव श्रये ॥४॥ भवदीयाननाम्भोजे लक्ष्मीविभ्रमधामनि । ___ दृष्टिः सरमसं भृङ्गोभङ्गीमङ्गीकरोतु मे ॥ ५ ॥ सुते यशः श्रियं धत्ते विघ्नव्यूहमपोहति । पिपर्ति परितः कामान् प्राणिनां तव दर्शनम् ॥ ६ ॥ रक्ष रक्षान्तरारिभ्यः कारुण्यामृतकुण्ड ! माम् । त्रैलोक्यत्राणशौण्डस्य गतोऽस्मि शरणं तव ॥ ७ ॥ या स्तुते त्वामिति श्राद्धः सिद्धिस्तं वृणुते रयात् । श्लोकायाक्षरनामानस्तवैनं विदधुः स्तवम् ॥ ८॥ -
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy