________________
गणिप्रणीतम् ] श्रीमगसीपार्श्वस्तवनम् । . १९१ तव प्रतापधुमणिप्रभाभरापहस्तिता हस्तगृहीतविष्टप !। . परप्रभावाः स्वपदैकचारिणः कृशाङ्गखद्योतगणन्ति सर्वतः ॥७॥ त्वदीयपादाम्बुजषट्पदायितैकतानचेतस्कनराः सुवैभवाः । तृणावमन्यन्त इहाद् भुतं सुरद मादिकं चिन्तितसाध्यसिद्धितः ॥८॥ त्रैलोक्यभत्तुस्तव मङ्गलात्मनोऽप्यनन्तशक्तेः पुरतः स्वभक्तितः । पूर्व प्रभाते ननु दर्पणीभवन्निजाधिकारं कुरुते ततो रविः ॥ ९ ॥ सुरगुचिन्तामणिकामधुग्मरुद्घटादयो वाञ्छितसिद्धिमङ्गिनाम् । त्वदीयजाग्रन्महिमांशवेशनदिवानिशं नाथ ! वितन्वतेतराम् ॥१०॥ प्रणेमुषां प्राणजुषां प्रभो ! भवत्पदारविन्द स्वरसैकभक्तितः । चिन्तामणीकामघटादयोऽप्यमी गृहाङ्गणे सन्ति निदेशवर्तिनः ॥११॥ त्वमेव बुद्धोऽसि विदां वरत्वतः श्रिया श्रितत्वात् पुरुषोत्तमोऽतमाः । प्रजापतिस्तत्प्रतिपालनादपि त्वमीश्वरो विश्वसमृद्धिसेवनात् ॥ १२॥
शंपोषपौषदशमीदिवसाहतत्व. सम्पादकाय निजजन्महोत्सवेन । श्रीअश्वसेननृपवंशविभूषणाय
नम्रामरेन्द्रमहिताय विभो ! नमस्ते ॥ १३ ॥ हृदयकमले ध्येयोऽमेयो गुणर्यतयोगिनां
त्रिदशरमणीगेयोऽजेयोऽपरैस्त्रिजगज्जयी । महितमगसीपार्थाधीशः सतां जनयन् सुखं
भुवि विजयतां स त्रैलोक्यश्रियां कुलमन्दिरम् ॥१४॥