________________
श्रीजैनस्तोत्रसन्दोहे [श्रीकल्याणविजयभूयो भक्तिभरावनम्रशिरसा नूतो मया भावतो
दे हि त्वं निजपादपद्मयुगलोपास्ति प्रशस्तां मम ॥१६॥
५१ महोपाध्यायश्रीकल्याणविजयगणिविरचितं
श्रीमगसीपार्श्वस्तोत्रम् ।
परमगुरुश्रीहीरविजयमूरिभ्यो नमः । कल्याणकारं कमनीयसम्पदं जिनेश्वरं सद्गुरुपादपङ्कजम् । प्रणम्य सिद्धयै महिमोदयं स्तुवे पार्थप्रभुं श्रीमगसीविभूषणम् ॥१॥ भवद्गुणानां गणनापि दुःशका जिनेश ! वाचस्पतिनापि धीमता ॥ कुतो हि तेषां त्दशक्यवर्णना प्रयत्नसाध्या महतां मम प्रभो ! ॥२॥ तथापि भक्तिस्त्वरयत्यनन्तरा गुणामृतास्वादसमुद्भवा स्तुतौ । जिनेन्द्र ! मां कोकिलमानमञ्जरी स्वादो यथा पञ्चमरागजल्पने ॥३॥ असावपूर्वाचरितो विराजते प्रतापभानुस्तव सन्ततोदयः । यशःसुधाधामविभूषितः सदा जगत्रयीसद्व्यवहारकारकः ॥४॥ समग्रविश्वोद्धरणक्षमो भवाननन्तशक्तिव॒वमध्यवन्तिषु । अधित्वयि श्रीमगसीकृतस्थिताववन्तयोऽपीप्सितसिद्धिसाधके ॥५॥ जगत्रयव्यापनतत्परस्य ते प्रतापभानोरतिशायितेजसः । सहस्रभानुप्रमुखा इमे सदा प्रकाशिनोऽशा इव बिभ्रति श्रियम् ॥६॥ १ कल्याणावलिमुज्ज्वलां प्रथयतां भास्वत्प्रभावाद् भुतः ॥
इति पाठान्तरे।