________________
सूरिप्रणीतम् ] श्रीऋषभजिनस्तवनम् ।
[ ३७ ] श्रीभुवनमुन्दरमरिमणीतं श्रीकुल्पपाकतीर्थालङ्कार
श्रीऋषभजिनस्तवनम् । महाभाग्यसौभाग्यलक्ष्मीनिवासं प्रदत्तप्रमादादिदोषप्रवासम् । त्रिलोकप्रकाशिस्फुरज्ज्ञानगेहं युगादिप्रभुं कुल्पपाके स्तुवेऽहम् ॥१॥ यथा भूष्यते भूतलं भानुकान्त्या वनवास्फुरद्गन्धविनाजिजात्या। यथा कल्पवृक्षण मेरुप्रदेशस्त्वया नाथ ! तद्वत् तिलङ्गाह्वदेशः ॥२॥ ललाटे विराराष्टि पीयूषरोचिः प्रधानौष्ठबिम्बे च ते तीक्ष्णशोचिः। विभो ! नाभिदेशे च ते लिङ्गरूपं कराम्भोजयोः शङ्खचक्रस्वरूपम् ॥ त्वदीयेन पुत्रेण ते चारुमूर्तिविभो ! चक्रिणाऽकारि विस्तारिकीर्तिः । जटाकाररेखाङ्कितांसप्रदेशा लसनीलमाणिक्यरूपा नतेशा॥ ४ ॥ अहं स्पृष्टमात्रोऽपि देवेश ! दिष्टया त्वदीयामृतस्यन्दिरोचिष्णुदृष्टया । अभूवं कुकर्मामयैर्विप्रमुक्तस्तथाभीष्टलक्ष्मीविलासैः प्रयुक्तः ॥५॥ मयाऽऽज्ञा त्वदीया यदा हृयधारि तदैवाखिलः पापपङ्कोऽप्यहारि । त्रिलोकाद्भुतप्रौढलक्ष्मीरचारि स्वचित्तं च हर्षामृतस्यन्धकारि ॥६॥ सुपर्वदुचिन्तामणीकामकुम्भस्फुरत्कामधेन्वादिवस्तूपलम्भः । प्रभो ! दर्शने तावकीनेऽध जातः प्रमोदाश्चितानम्रदेवेन्द्रनात ! ॥७॥