SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ श्रीजैनस्तोत्रसन्दोहे सदभ्यस्तीचक्रे प्रवरतरदानं कथमसौ प्रदातृत्वात् तुल्यो भवति भगवंस्ते सुरनत ! ॥ २७ ॥ यतो लोकः सर्वो भवति कलितः शस्यरमया श्रयन् नव्यां भूषां विलसति सदा मोदकतया । स्फुरज्ज्ञानज्योतिः पटलकृतनीराजनविधि जिनेश ! त्वं दीपोत्सव इव जयस्येष गुणवान् ॥२८॥ अशोकः शोकार्त्तिं हरति कुरुते चाद्भुतसुखं सदा पौष्यी वृष्टिः किमु नु सुखसृष्टिखिजगतः | ध्वनिर्दिव्यः श्रोत्रेष्वमृतरसदानैकरसिकः शरच्चन्द्रज्योत्स्नाधवळचमराली गतमला ॥ २९ ॥ स्फुरद्रानं सिंहासनमुरुरुचां मण्डलमिदं जनाहादि प्रोद्यन्मधुरिमगुणो दुन्दुभिरवः । सितज्योतिश्छत्र त्रितयमिति रम्या अतिशया स्तव स्वामिन् ! ध्याता अपि विदधते मङ्गलततिम् ॥ प्रौढ श्रीगुणरत्नरोहणागिरे ! श्रीपार्श्व ! विश्वप्रभो ! त्रैलोक्याम्बुधिसोमसुन्दरगुरो ! देवेन्द्रवृन्दस्तुत ! । श्रीजीरा उलिनामधेयनगरी शृङ्गारहार ! प्रभो ! भूयास्त्वं भुवनस्य वाञ्छितविधौ चिन्तामणिः सर्वदा ॥ श्रीपार्श्वनाथस्तवनम् । श्रीभुवनसुन्दरसूरिकृतम् । १५८ [ श्रीभुवनसुन्दर
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy