________________
-१४२
श्रीजैनस्तोत्रसन्दोहे
श्रीसिद्धान्तरुचि
नाथ ! ते पदपयोजदर्शनं पूर्वपुण्यविभवेन यो जनः । दर्शनं सुपदताप नाथते पूर्वपुण्यविभवेन तासु न ॥ १४ ॥
[द्विपादगूढम् ] सन्दोहापोहकारी मदमदनगजे केशरी सारवाक्यो
निर्वाणं सम्प्रयातो वृजिनगणभवामापदां पिष्टिसज्जः । यो नित्यं वन्द्यमानः सुरनरविसरै गचिन्हः परघ्नो नन्द्याद् व्याधिप्रमन्था मुकुरसममुखः पार्श्वराट् कृष्णतेजाः ॥१५॥
[ श्लोकगूढम् ] श्लोकश्वायम्
संसारवासनिर्नाशकरणं परमं जिनम् ।
यो वन्दते सकृदपि स निधिः सुखसम्पदाम् ॥ १६ ॥ इत्थं मया कम्रकवित्वपक्तिकर्पूरपूरैमहितः सुयुक्तिः । जीरापुरीशः सुखमातनोतु स्वकीयसिद्धान्तधियं घिनोतु ॥१७॥
॥ इति गुप्तभेदैः श्रीजयराजपुरीशपार्श्वजिनस्तवनम् ॥ कृतं श्रीपूज्यश्रीजिनभद्रगणिशिष्येण पंसिद्धान्तरुचिगणिना ॥