SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ विरचितम् ] श्रीपार्श्वनाथस्तवनम् । कृता देव ! वामाभुवस्ते स्तुतियैनं भूतं भयं भूरिभव्येषु तेषु । तदन्तर्गन्तं लोलचक्षुःकटाक्षैः क्षतं वीक्ष्य किं मामुपेक्षां करोषि ! ॥७॥ [अपादानगूढम् ] भवेतां पदौ सर्वदौ सर्वदा ते स्तुतौ तात ! सैषा स्तुतिस्ते न सम्यक् । यदेते न रोगं न चानिष्टयोगं न चेष्टैवियोगं लभन्ते कदापि ॥८॥ [सम्बन्धगूढम् ] जिन! रुचिरमणीनां भूषणानां भरेणाभिनवलवणिमाब्धेऽस्थितेनास्पदेन। तव चरणनखानां नाकिनाथेन नम्रोनतमुकुटगलच्छोणाश्मनां मोह ऊहे ।। [आधारगूढम्] येन ते चरणपर्युपासिनाऽभावि भाविशिवभूविलासिना । तेन सा त्रिजगती स लोचना लोचना किमपरास्तशोचना ॥ १० ॥ [सम्बोधनगूढम् ] पर्वतात् धोरिमाधारो गम्भीरो वारिधेरपि । दानशौण्डोऽम्बुदेभ्योऽपि देवो वश्चित्तचिन्तितम् ॥ ११ ॥ [क्रियागूढम् ] आनन्दरोऽरुचिरपातककूटकालः क्षिप्तस्त्वयावनतदेव ! नयाश्रितस्त्वम् । कि पूर्यते मम स तेन गुणोर्भिमालिनोंवैरितस्त्रसति यो भजते हितात् त्वाम् ॥ १२ ॥ [ सप्तकारककसम्बोधनैकक्रियाद्विकर्मगूढम् ] ये भजन्ति नियतं त्रिकालवित् त्वां नवात्मभिमतांस्तनोषि किम् । देव ! सेवकमिमं विभालयं किं निभालयसि नो भवालयम् ॥ १३ ॥ [पादगूढम् ]
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy