________________
सूरिविरचितम् ] श्रीपार्श्वजिनस्तवनम् ।
अवचूरिः। इति वचनात् । तथा अव 'उवीन ! तीरजतः। ऊः-प्रीतिः, आ-ईषत् ऊः उ: तस्याः स्वल्पपीतेः, उवि-वृद्धिविषये इन !-स्वामिन् ! प्रभो ! क्षम इति यावत् । 'तीरम् ' संसारसागरपारं गतः-प्राप्तः, 'उः' सम्बोधनार्थः। तथा हे सफल !। धोरणं घोरः-गतेष्वातुर्य स विद्यते यस्यासौ 'धोरी' गजगतित्वात् । 'डंकृग् करणे ' इति धातोः प्रकृतेर्यथा उप्रत्ययस्तथा शिवप्रत्ययाऽपि । एवमुक्तत्वात् 'उरीकर उवीन' इत्यत्र एवं सन्धिः । अड माडीति पदेन उरीकुरस्थस्याकारस्य उकारे लुक् । ततः 'ऊरीकरो ' इति रूपम् ‘ओदौतोऽवाव् ' (सिद्ध० १।२।२४ ) इति पदेन निमित्तभूतेन उवि उमरीकरो उकारस्य अव् 'स्वरे वा ' (सिद्ध० १।३।२४ इति वलोपः इति सिद्धं फरीकर उवीति । 'अह' इति पूजार्थों मङ्गलाथै स्तुतिपरिसमाप्तौ गृहीतः । स्वामिना स्वीकृते यज्जातं तदाह-दयया लूनाः-छिना वामाः-प्रतिकूलाः क्रूरदृष्टयादिना आरभावाः-क्रूरप्रहमङ्गलरूपाः अरयो-वैरिणो यया सा 'दयालूनवामारभावारिः। एवंरूपा वारी-सरस्वती 'चारिर्घटयां सरस्वत्याम्"
( हेम्यने० का० २, श्लो० ४४४ ) ___इत्युक्तेः । सा सर्वजनप्रसिद्धा ई-लक्ष्मी: करे-हस्ते उषिते-वसतः स्म, हस्तगते सजाते इत्यर्थः । किंरूपा लक्ष्मीः ? • आरसारा ' अरीणां समूह आरः तं सारयति-निर्गमयतीति आरसार । ममेति शेषः । विषमवृत्तेषु याश्रयादिषु क्वचित् क्वचित् साध्याहारवचःप्रयोगदर्शनात् इह क्वचित् तत्प्रयोगो न दोषाय इति । यदि भगवान् प्रसन्नस्तर्हि लक्ष्मीसरस्वत्यौ हस्तगते स्यातामिति किं चोद्यम् । 'वीरहीर ' इति जिनसम्बाधनम् । वीरेषु-सत्पुरुषेषु हीरः-वज्ररत्नम् ॥
इति त्रयोदशपद्यार्थः ॥ १३ ॥ इति समर्थितः स्तुत्यर्थलेशः ॥