________________
-
-
श्रीजैनस्तोत्रसन्दोहे [श्रीलक्ष्मीसागर
[२७] श्रीलक्ष्मीसागरसूरिविरचितं श्रीपार्श्वजिनस्तवनम् ।
श्रीवामेयं विधुमधुसुधासारसारस्वभावं
न्यायापेतोद्धतमतिचमत्कारकारिप्रभावम् । 'जीरापल्ली' पदमविपदं वारिदच्छायदेह निःसन्देहं विमलकमलाकेलिगेहं स्तुवेऽहम् ॥१॥
अवचूरिः । - अहं श्रीवामेयं स्तुवे । वामाया अपत्य वामेयः तम् । किं विशिष्टं वामेयम् ? ' विधुमधुसुधासारसारस्वभावम् ' विधु:-चन्द्रः, मधु-मधुरं वस्तु, सुधा-अमृतं, तेषां आसारो-वेगवती वृष्टिः, तद्वत् सारःश्रेष्ठः स्वभावो यस्य तम् । न्यायापेतोद्धतमतिचमत्कारकारिप्रभावम् ।' न्यायापेता-न्यायरहिता ये उद्धतमतय-उत्कटमतयस्तेषां चमत्कारकारकारी प्रमावो यस्य स तम् । पुनः किंविशिष्टम् ? 'जीरापल्लीपदम्' जीरापल्ल्यां पदं-स्थानं यस्य । पुनः कीदृशम् अविपदन्' विपद्रहितम् । पुनः कीदृशम् ? 'विमलकमलाकेलिगेहम् ' विमला चासौ कमला च विमलकमला तस्याः केलिगेहम्-क्रीडागृहम् ॥ १ ॥
साषार्थહું શ્રીવામ-પાર્શ્વનાથનઈ સ્તવૂ, ન્યાયિ કરી અપેત-રહિત છઈ જે ઉદ્ધતમતિ–ઉત્કટમતિ તેહઈ ચમત્કાર કારિ જેહનઉ પ્રભાવ–મહિમા છઈ. જીરાપલ્લી-જીરાલી તિહાં પદ-સ્થાનક છઈ, “અવિપ’ વિપદ-કષ્ટિ રહિત છઈ. વિમલ–નિર્મલ છઈ જે કમલા-લક્ષ્મી તેહનહધ કેલિગેહ-ક્રીડાગ્રહ छ ॥१ ॥