SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ १११ श्रीजनस्तोत्रसन्दोहे [श्रीजिन - जीवाजीवादिपदार्थसार्थनिर्भासकं निरावरणम् । सकलं केवलमतुलं प्राप्याभूत् सर्ववेदी यः ॥३॥ वचनातिशयैः पञ्चत्रिंशतालङ्कृतं य इह वचनम् । साष्टगुणं द्वात्रिंशदोषैर्विकलं कलं वदति ॥ ४ ॥ सेन्द्राः सुरा भुवनपा ज्योतिष्का व्यन्तराः सपरिवाराः । सव्यापाराः साराः सेवन्ते यच्चरणकमलम् ॥ ५ ॥ मूलातिशया एते चत्वारो यस्य जगति राजन्ते । अपरेऽपि चतुस्त्रिंशत् सङ्ख्याः ख्याता सकललोके ॥६॥ चत्वारः सहजाता एकादशघातिकर्मघातोत्थाः । एकोनविंशतिरथो देवकृताश्चेति सर्वेऽपि ॥ ७ ॥ इत्थं श्रीअश्वसेनान्वयजलधिसमुल्लासचन्द्रोपमानः प्रोचन्मोहान्धकारप्रशमनविधये सूर्यतुल्योपमानः । नूतः सर्वाद्भुतेनातिशयगुणगणेनेह पाओं जिनेन्द्रः सम्पत्तिं वस्तुनोतु प्रसृमरजिनभद्रानुगां सोऽस्तन्द्रः॥८॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy