________________
विरचितम् ] श्रीपार्श्वनाथस्तोत्रम् । सदर्पसर्पा अपि सर्पशत्रुकदर्थनाभीतिमिवावहन्तः । त्वामाश्रयन्तोश ! फणामिषेण त्रैलोक्यरक्षाविहितैकदीक्षाम् ॥१०॥ फणोरगाणां प्रणताङ्गिपापभेकास्त्वमाहारपदे प्रयच्छन् । स्वां देव ! सर्वाभयदानदीक्षां यत्नात्यचारीस्तदिहाति चित्रम् ॥११॥ अद्यापि मूर्ना धरणोरगेन्द्रसेव्यस्ति पिद्धांबुमहोपसर्गम् ।। वहन्यमानां विपदेशतत्त्वं नेतः ! कृतज्ञेषु धुरि स्थितोऽसि ॥१२॥ स्फुरत्फणानां तव निःसपत्नप्रभा व्योमनि विस्तरन्त्यः । लोकत्रयोलोचनदत्तचित्रं विनापि भित्तिं रच यन्ति चित्रम् ॥ १३ ॥ प्रभो ! गभीरप्रकृतेर्विनीलदलोत्पलश्यामलभूरिभासः । फणास्तवाब्धेरिव भान्ति रत्नमिश्रोत्पतत्तुङ्गतरङ्गतुल्याः ॥१४॥ स्फुरन्मणिस्फारफगान् दधाना अपि प्रदर्यास्तव देव ! सर्पाः । हर्ष प्रवर्षन्ति जनस्य दृष्टाः स्पृष्टाश्च सङ्गो हि सतां शमाय ॥१५॥ श्रिताः फणास्त्वां मणिराजिभाजो रेजुः कृतार्थीकृतभव्यसार्थ !। अतुल्यवल्लयः कुसुमाभिरामाः कल्पद्रुमं नन्वधिरूढवत्यः ॥ १६ ॥ अतुल्यकल्याणमहानिधानं लभ्यं लसद्भाग्यभरोदयेन । प्रभो ! भजन्ते भुजगा भवन्तं युक्तं मणीमण्डितमौलिमध्याः ॥१७॥
स्फारस्फूर्जत्फणानामनणुमगिगणोद्योतविद्योतिताशा
चक्रं चारूपनामप्रवरपुरमहीमण्डनं पार्श्वनाथम् । यः स्तौत्येवं तमालद्रुमदलपटलस्फर्द्धमानामलाङ्गज्योतिर्जालं स शर्माण्यनुभवति भवाम्भोधिपारस्थितात्मा ॥